________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 265 प्रशस्तपादभाष्यम् [115] पार्थिवपरमाणुरूपादीना पाकजोत्पत्तिविधानम् / घटादेरामद्रव्य'स्याग्निना सम्बद्धस्याग्न्यभिघातान्नोदनाद्वा तदारम्भ के ध्वणुष कर्माण्यत्पद्यन्ते तेभ्यो विभागा विभागेभ्यः संयोगविनाशाः संयोग'विनाशेभ्यश्च कार्यद्रव्यं 'विनश्यति / तस्मिन् विनष्टे 'स्वतन्त्रेषु परमाणुष्वग्निसंयोगादौष्ण्यापेक्षाच्छयामादीनां विनाशः पुनरन्यस्मादग्निसंयोगादौडण्यापेक्षात् पाकजा जायन्ते। न्यायकन्दली [115] पार्थिवपरमाणुरूपादीनामुत्पत्तिविनाशनिरूपणार्थमाह - पार्थिवपरमाणुरूपाविनामिति / यद्यपि परमाणव एव पृथिवी, तथापि ते कार्यरूपपृथिव्यपेक्षया पार्थिवा उच्यन्ते / पृथिव्या इमे कारणं परमाणवः पार्थिवपरमाणवः, तेषां ये रूपादयस्तेषां पाकजानामुत्पतैविधानं प्रकारः कथ्यते / नन्वेवं सति श्यामादिविनाशनिरूपणं न प्रतिज्ञातं स्यात्, नवम् प्रकारशब्देन तस्यावबोधात् / 'एवं हि रूपादीनां पाकादुत्पत्तिप्रकारः। यत्र पूर्वेषां विनाशादपरेषामुत्पादस्तमेव प्रकारं दर्शयति-घटादेरामद्रव्यस्येत्यादिना / आविशब्देन [टि०] [115] ( // अथ पाकजोत्पत्तिप्रक्रियानिरूपणम् // ) आमद्रव्यस्य इति :-प्रस्तुतपाकापेक्षया आमत्वं पार्थिवस्यापक्वत्वाभावात् / औष्णापेक्षाद् इति :-चन्द्रचक्षुस्तेजसोरनुष्णयोरपाकहेतुत्वात् / ननु घटादिद्रव्येऽविनष्ट एव श्यामादिरूपादि विनाशो रक्ताद्युत्पादश्च किं न भवति ? स्वतन्त्रेष्वेव परमाणषु रूपादिविनाश इत्यत्र किं प्रमाण मित्याह स्वतन्त्रेषु परमाणुषु इति / तन्त्वादौ हि पटोत्पत्तेः [पं०] [115] श्यामादीति (कं. 107.14) श्यामशब्देन रूपमुपलक्ष्यते तेन रूपादीति व्याख्येयम् / "अवरोधात् (कं. 107.14) इति सङ्ग्रहात् / कर्माणोति (कं 107.18) चलनादीति / "न साक्षादिति साक्षादारम्भका हि दघणुकादय एव न तु पर [मा]णवः / [कु.] [115] पृथिव्या इमे (कं. 107.12) इति / विकाराणभावेऽपि वैशेषिकोऽणित्यर्थः / नन्वपक्वद्रव्यस्येति नोपपद्यते, पार्थिवस्य सर्वस्य पक्वादित्यत आह पाकार्थमिति (कं. 107.17) आरम्भकेष समवायिकाराणष्वित्यर्थः / 1 स्याग्निसंयुक्तस्य -दे। 2 परमाणुषु - दे। 3 विनाशेभ्यः कार्य द्रव्यं - दे। 4 विनश्यतीति - जे / 5 'स्वतन्त्रेषु' इति-जे. व्यो. (446) दे. पुस्तकेषु च नास्ति / 6 यथा-कं. 1; कं. 2 / 7 आमत्वा -अ, ब / 8 पार्थिवस्यापेक्षत्वाभावात् - अ, ब, क / 9 विनाशा-अ। 10 अवबोधात् -कं। 11 इदं प्रतीकं कं पुस्तके .. नास्ति। 34