________________ 264 न्यायकन्दलीसांवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [114] स्पर्शस्त्वगिन्द्रियग्राह्यः 'क्षित्युदकज्वलनपवनवृत्तिस्त्वक्सहकारी रूपानुविधायी शीतोष्णानष्णाशीतभेदात् त्रिविधः / अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववत् / न्यायकन्दली [114] स्पर्शस्त्वगिन्द्रियग्राह्यः / त्वचि स्थितमिन्द्रियं तेनैव स्पर्शो गृह्यते 'नान्येन / क्षित्युदकज्वलनपवनवृत्तिः। एतेष्वेव 'वृत्तिरेव / त्वक्सहकारी। स्वगत'स्पर्शस्त्वगिन्द्रियस्य विषयग्रहणसहकारी / रूपानुविधायी रूपमनुविधातुमनुगन्तुं शीलमस्य, यत्र रूपं तत्र 'नियमेन तस्य सद्भावात् / शीतोष्णानुष्णाशीतभेदात् त्रिविधः / काठिन्यप्रशिथिलादयस्तु संयोगविशेषा न स्पर्शान्तरम्, उभयेन्द्रियग्राह्यत्वात् / अस्यापि नित्यानित्यत्वनिष्पत्तयः पूर्ववदिति / व्यवहितस्य रसस्य ग्रहणं न गन्धस्य, तस्य नित्यत्वाभावात् / [टि०] [114] ( // अथ स्पर्शनिरूपणम् // ) त्वचि स्थितम् इत्युपलक्षणम्, तेन शरीरावरणचर्मव्यतिरेकेण शरीरमध्येऽपि वर्तमानस्य "स्वगिन्द्रियत्वं भवत्येव / “त्वक्सहकारीत्यत्रोपचारात् त्वकशब्देन तत्स्थमिन्द्रियमुपलभ्यत इति / / स्पर्शः / / / [पं०] [114] शीतोष्णानुष्णाशोतभेदादिति (कं. 106.15) शीतः स्पर्शो जले उष्णः स्पर्शोऽग्नौ, अनुष्णाशीतस्पर्शः पृथिव्याम / न स्पर्शान्तरमिति (कं. 106.16) न स्पर्शभेदः / उभयेन्द्रियग्राह्यत्वादिति चक्षुःस्पर्शनेन्द्रियग्राह्यत्वात् / (कं. 106.17) विशेषगुणा हि एकेन्द्रियग्राह्या एव / [कु०] [114] अनाद्यस्थितिस्थापकेतिव्याप्तेः, यत्र रूपमित्यनेनानुविधानं व्याप्तिः। व्याप्तेश्च व्याप्य[व्याप]कोभयनिष्ठत्वेऽपि व्यापकव्यापार वक्षित्वात्पुरुषव्याचष्टे रूपमनुविधातुमिति (कं. 106.14) कर्मव्यापारताविवक्षायां रूपमनुविधायि यस्येति बहुव्रीहेरप्यविरोध एव। इदं च सङ्ख्यासाधारणमपि विशेषगुणत्वे सति विशेषितं वैधयं द्रष्टव्यम् / 1 पथिव्यूदक -जे. व्यो. 444 / 2 तस्यापि -जे। 3 नान्येनेति - जे. 1, जे. 2 / 4 वत्तिरेतस्य -जे. 1 जे. 2 / 5 स्पर्शस्त्व - कं. 1; कं. 2 / 6 नियमेन सद्भावात् - कं.१। 7 त्वगिन्द्रियत्वं च - अ, ब / 8 त्वेकसहकारी-अ, ब /