________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 263 प्रशस्तपादभाष्यम् [113] गन्धो घ्राणग्राह्यः पृथिवीवृत्तिर्घाणसहकारी 'सुरभिरसुरभिश्च / अस्यापि पूर्ववदुत्पत्त्यादयो व्याख्याताः / न्याथकन्दली [113] गन्धो घ्राणग्राह्यः / गन्ध एव घ्राणग्राह्यो घ्राणग्राह्य एव गन्धः / ननु कथमयं नियमः ? स्वभावनियमात् / ईदशो गन्धस्य स्वभावो यदयमेव घ्राणेनैकेन गृह्यते नान्यः, दृष्टानुमितानां नियोगप्रतिषेधाभावात् / पृथिवीवृत्तिः। पृथिव्यामेव वर्त्तते नान्यत्र। घ्राणसहकारी। स्वगतो गन्धो घ्राणस्य सहकारी। सुरभिरसुरभिश्चेति भेदः / अस्यापि पूर्ववदुत्पत्त्यादयो व्याख्याताः। यथा रसः पार्थिवपरमाणुष्वग्निसंयोगादुत्पत्तिविनाशवान् कार्ये कारणगुणपूर्वक आश्रय'विनाशाच्च विनश्यति, तथा गन्धोऽपि / नित्यत्वं पुनरस्य मास्त्येव / [टि०] [113] ( // अथ गन्ध निरूपणम् // ) दृष्टानुमितानाम् इति :- "नियोगोऽभ्यनुज्ञानाविधिः तद्विपरीत: प्रतिषेधः, तो प्रत्यक्षानुमानगृहीतानामर्थानां न सम्भवतः / किन्तु यथादृष्टा एव तेऽभ्युपेया इति // गन्धः / / - [पं०] [113] ननु कथमयं नियम (कं. 106.1) इति प्रश्नः / स्वभावनियमाद् (कं. 106.2) इत्युत्तरम् / नियोगप्रतिषेधाभावस्य प्रतिषेधाभावात् / [कु०] [113] ननु कयमिति (कं. 106.2) सर्वसाधारणोऽपि न्यायो विभवात् क्वचिन्निरूप्यते / भेद इति (कं. 1065) असुरभिरिति सुरभिविपरीतो भाव एवानुभवसिद्धः अधर्मवत् / न तु सौरभ्याभावमात्रमिति भावः / ननूत्पत्तिविनाशयोद्वित्त्वेन बहुवचनानुपपत्तिरित्यतः कारणविरोधिभ्यां सह बहुत्वमुपपादयति यथा रस एतेष्विति " (कं. 106.5) विशेषगुणमध्य इति पूरणीयम् / 1 स द्विविधः सुरभिरसुरभिश्च - जे.। 2 येनायमेव -जे. 1; जे. 2 / 3 °विनाशाद्वि - कं. 1, कं. 2 / 4 मेयागो-अ, ब / 5 एतेषु कं. पुस्तके नास्ति /