________________ 262 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [112] रसो रसनग्राह्यः पृथिव्युदकवृत्तिर्जीवनपुष्टिबलारोग्यनिमित्तं रसनसहकारी मधुरामललवणतिक्तकटुकषायभेदभिन्नः / अस्यापि नित्यानित्यत्वनिष्पत्तयो रूपवत् / न्यायकन्दली [112] सम्प्रति बाझेकैकेन्द्रियग्राह्यस्य प्रत्यक्षद्रव्यवृत्तेविशेषगुणस्य निरूपणप्रसङ्गन रसगन्धयोाख्यातव्ययोरुभयद्रव्यवृत्तित्वविशेषेणादौ रूपं व्याख्याय रसं व्याचष्टेरसो रसनग्राह्य इति / गुणेषु मध्ये रस एव रसनग्राह्यो रसनग्राह्य एव रसः / पथिव्युदकवृत्तिः। पृथिव्युदकयोरेव वर्तते / जीवनपुष्टिबलारोग्यनिमित्तम् / जीवनं प्राणधारणम्, पुष्टिरवयवोपचयः, बलमुत्साहविशेषः, आरोग्यं रोगाभावः, एषां रसो निमित्तम् / एतच्च सर्वं वैद्यशास्त्रादवगन्तव्यम् / रसमसहकारी / स्वगतो रसो रसनस्य बाह्यरसोपलम्भे सहकारी। मधुरामललवणतिक्तकटुकषायभेदभिन्नः / मधुरादिभेदेन भिन्नः षट्प्रकार इत्यर्थः / तस्य च नित्यानित्यत्वनिष्पत्तयो 'रूपवत / यथा रूपं पार्थिवपरमाणष्वग्निसंयोगादुत्पत्तिविनाशवत् सलिलपरमाणुषु नित्यं कार्ये कारणगुणपूर्वकमाश्रयविनाशाद्विनश्यति, तथा रसोऽपि / [टिक] पूर्वापरकालता नाङ्गीक्रियते द्वयणुके चारब्धे रूपमेवारब्धमिति कथमयं दोष इत्याह -किश्वावस्थित एव इति / सर्वदा रूपस्य इति :-अविनश्यदवस्थस्येति ज्ञेयम, विनश्यदवस्थस्य द्रव्यरहितस्यैवैकक्षणावस्थायित्वात / रूपं रसश्च / / [पं०] [112] विशेषगुणस्येति (कं. 105.12) रूपस्य / रसगन्धयोरित्यादिः (कं. 105.13) रूपं व्याख्याय गन्धरसयोर्मध्यात् आदौ रसं व्याचष्टे इति योगः / किमिति गन्धं प्रथमं न व्याचष्टे इत्याह-उभयद्रव्यवृत्तित्वविशेषेणेति (कं. 105.13) गन्धादि पृथिव्यामेवेति स एकद्रव्यवृत्तिः / रसस्तु पृथिव्युदकलक्षणोभयवृत्तिरित्यतो गन्धाद्विशिष्टः / ततो गन्धात् प्रथम रसं व्याचष्टे इति वाक्यार्थः / उत्पत्तिविनाशवदिति (कं. 105.21) उत्पत्तिविनाशयुक्तम् , यद्यपि प्रथमं विनाशः श्यामादीना, ततः पाकजानामुत्पत्तिस्तथापि प्राधान्यादुत्पत्तेरादौ ग्रहणम् / [कु०] [[12] एषां रसो निमितमति (कं. 105 17) उबलगमेतत् / मरणकार्य बलहानिरोगाणामपि रसनिमित्तत्वाद् / यद्यप्येतद् गन्धादेरप्यस्ति तथापि रसप्राधान्यादविरोधः / भाष्ये नित्यानित्यशब्दौ भावप्रधानी द्रष्टव्यौ / 1 रूपादिवत्-जे. 1. जे. 2 / 2 रकित-अ।