________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् न्यायकन्दली य तु रूपद्रव्ययोस्तादात्म्यमिच्छन्तो द्रव्यकारणमेव 'रूपस्य कारणमाहुस्ते इदं प्रष्टव्याः-कि परमाणुरूपं रूपान्तरमारभते न वा? आरभमाणमपि कि स्वात्मन्यारभते? किं वा स्वाश्रये परमाणौ ? यदि नारभते ? यदि वा स्वात्मनि स्वाश्रये चारभते ? द्वयणुके 'रूपाद्यनुत्पत्तौ तत्पूर्वं जगदरूपं स्यात् / 'अथ तद् द्वयणुके आरभते, अविद्यमानस्य 'स्वाश्रयत्वायोगादुत्पन्ने द्वयणुके पश्चात्तत्र रूपोत्पत्तिरित्यवश्यमभ्युपेतव्यम्, निराश्रयस्य कार्यस्यानुत्पादात् / तथा सति तादात्म्यं कुतः ? पूर्वापरकालभावात् / किञ्चावस्थित एव घटे रूपादयो वह्निसंयोगाद्विनश्यन्ति तथा सति जायन्ते चेति भवतामभ्युपगमः, यस्य चोत्पत्तौ यस्यानुत्पत्तिर्यन्निवृत्तौ चानिवृत्तिर्न तयोस्तादात्म्यमिति प्रक्रियेयम् / न चात्यन्तभेदे पृथगुपलम्भप्रसङ्गः, सर्वदा रूपस्य द्रव्याश्रितत्वात् / एतदेव कथम् ?. वस्तुस्वाभाव्यादिति कृतं 'गुरुषु प्रतिकूलवादेन / [पं०] यदि ह्यकारणस्येत्यादि (कं. 104.21) घटादिरूपं हि अवयवरूपादुत्पन्नं न चावयवसंयोगात् / अतोऽवयवसंयोगो घटादिरूपं प्रति अकारणम् / अकारणस्यापि चावयवसंयोगस्य नाशे रूपनाशः स्याच्चेत् तर्हि अवयवसंयोगस्य नाशे कपालरूपाण्यपि विनश्येयुरविशेषात् / घटादिगतरूपं प्रति हि अकारणत्वमवयवसंयोगस्य, कपालरूपाणि च प्रति तुल्यमेवेति वाक्यार्थः / .. स्वात्मनीति (कं. 104.26) रूपे एव / तत्पूर्वकं जगदिति (कं. 104.27) तत्पूर्वकं द्वयणुकपूर्वकम् द्वघणुकादिः सृष्टिरिति कृत्वा / प्रक्रियेयमिति (कं. 105.6) वाङ्मात्रमेतदित्यर्थः / [कु०] प्रसाधितः तथापि परिहारान्तराभिधित्सया पुनराशङ्कते इत्यपौनरुक्त्यम् / तत्र भेदसाधकस्य प्रमाणस्यानुकूलतक विकल्पपूर्वकं दर्शयति इदमिति (कं. 104.25) / ततश्च पक्षत्रयेप्यनिष्टाक्षे पश्चतुर्थः पक्षः परिशिष्यते इत्यत आह अति (कं. 105.1) / तदयं प्रमाणार्थ:- द्वयणुकं स्वरूपाद् व्यतिरिक्तं तदाश्रयत्वात् बदरादिवत्कुण्डमिति / भवतां (कं. 105.4) पिठरपाकवादिनामित्यर्थः। पृथगुपलम्भप्रसङ्ग इति ( कं. 105.6) सहोपलम्भनियमेन स्यादित्यर्थः / .. 1 रूपकारण - जे. 1; जे. 2 / 4 आश्रयत्वा-जे, 1; जे.२। 7 निष्टापक्षेश्च -ह. पु. / 2 रूपानुदत्तौ तत्पूर्वकं - कं. 1; कं. 2 / 5 विनश्यन्ति जायन्ते च-जे.१; जे.२। 3 अथ द्वयणुके-जे. 1; जे. 2 / 6 गरुप्रतिकल-कं. 1; कं. 2 /