________________ 260 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली पार्थिवपरमाणुष्वग्निसंयोगविरोधि / 'अग्निसंयोगो विरोधीविनाशकः पार्थिवपरमाणुरूपस्येति च वक्ष्यामः / सर्वकार्येषु कारणगुणपूर्वकम् / 'कार्यद्रव्यगतं रूपं स्वाश्रयसमवायिकारणरूपपूर्वकम् / आश्रयविनाशादेव विनश्यति / कार्यरूपविनाशस्याश्रयविनाश एव हेतुः। [111] आश्रयविनाशाद्रूपस्य विनाश इति न मृष्यामहे सहैव रूपद्रव्ययोविनाशप्रतीतेरिति घेन, कारणाभावात् / मुद्गराभिघातात् तावद वयवक्रियाविभागादिक्रमेण द्रव्यारम्भक'संयोगनिवृत्तौ तदारब्धस्य द्रव्यस्य विनाशः कारणविनाशात्, तद्गतरूपविनाशे तु कि कारणम् ? यदि ह्यकारणस्याप्यवयवसंयोगस्य 'विनाशापविनाशः, 'कपालरूपाण्यपि ततो विनश्येयुरविशेषात् / "तस्मात् पूर्व द्रवस्य विनाशस्तदनु रूपस्य, आशुभावात् क्रमस्याग्रहणमिति युक्तमुत्पश्यामः / [टि०] संयोगस्येत्युक्तम् ? नवम्, "साक्षात्कारणत्वस्यात्र विवक्षितत्वात् / अन्यथैकार्थसमवायलक्षणया प्रत्यासत्त्या तस्यकपाल"मालां प्रत्यपि कारणत्वात्, तद्विनाशे कपालमालानाशप्रसङ्गात् / ननु गुणगुणिनोस्तादात्म्याभ्युपगमात् [पं०] [111] न मृष्यामहे इति (कं. 104.18) मीमांसकवचनम् / अवयवविभागादि क्रमेणेत्यादि (कं. 104.20) अवयवानां? "स्थासकोशादीनां क्रिया चलनवलनाधिका भवति, ततः क्रियातो विभागः, विभागात पूर्वसंयोगविनाशः, उत्तरसंयोगोत्पत्तिरिति क्रमस्तेन घटादिद्रव्यारम्भकसंयोगस्य निवृत्तौ सत्याम् / तयारब्धस्येति (कं. 104.20) . संयोगारब्धस्येति घटादेविनाशः / कारणविनाशादिति (कं. 104.21) संयोगविनाशाज्जायते इति वाक्यार्थः / [कुo] मुक्तमिति भावः / "चक्षुषो विषयग्रहण इति (कं. 104.12) तत्सहितस्यैव चक्षुषो यदा सह गुणानामिन्द्रियभावादिति पार्थिवपरमाणुरूपस्योत्पादकविनाशको दर्शयितुं सलिलादिपरमाणुषु नित्यत्वमुक्तम् / अतो गुणान्तरसाधारणत्वान्नेदं धर्म्यमित्यचोद्यम् / [111] सहैवेति (कं. 104.19) अनाश्रयस्य कदाचिदप्यग्रहणादिति भावः / चक्षुरुन्मेष [निमेष] ग्रहणयोरिवानुमानाकार्यकारणभावः क्रमाद्ग्रहणं चेत्यादाय तत्परिहरति नेति (कं. 109.18) / अकारणनाशादकार्यनाशे योऽतिप्रसङ्ग [स्तस्य परिहाराय तादात्म्यमाशङ्कते ये त्विति (कं. 104.24) / यद्यपि गुणे भेदः प्रागेव 1 अग्निसंयोगो विनाशक:- कं. 1; कं. 2 / 2 कार्यद्रव्येषु-कं. 1; कं. 2 / 3 त्र्यणुकः - टिप्पण जे.१। 4 त्र्यणुक:-टिप्पण जे.१। 5 द्वयणुक:-टिप्पण जे. 1 / 6 अवयवक्रियाः विभागादिक्रिया दनोनाख्याःटिप्पण-जे.१। 7 संयोगस्य-जे.१; जे. 2 / 8 विनाशे-जे. 1, नाशो रूपनाशक: -जे.२। 9 कपालरूपाण्यपि नश्येयुः-जे. 1; जे. 2 / 10 तस्माद्रव्यस्य नाशः-जे. 2 / 11 साक्षाकारणस्य-अ, साक्षात्करणस्य भत्र-ब। 12 कपालमाल-अ। 13 अत्र लेखकप्रमादाद्विचित्र एवाऽस्पष्टार्थः पाठोऽजनि। 14 चक्षुको विषयग्रहणादेति -ह. पु.।