________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोषेतम् 259 प्रशस्तपादभाष्यम् [110-111] तत्र रूपं चक्षुह्यं पृथिव्युदकज्वलनवृत्ति द्रव्याधुपलम्भकं नयनसहकारि शुक्लाद्यनेकप्रकारं सलिलादिपरमाणषु नित्यं पार्थिवपरमाणुष्वग्निसंयोगविरोधि 'सर्वकार्येषु कारणगुणपूर्वकमाश्रयविनाशादेव विनश्यतीति / न्यायकन्दली [110] सर्वपदार्थानामभिव्यक्तिनिमित्तत्वादादौ रूपं निरूपयति-तत्र रूपं चक्षुर्ग्राह्यमिति / तेषां गणानां मध्ये रूपं चक्षुषेवः गद्यते 'नेन्द्रियान्तरेण / ननु रूपत्वमपि चक्षुषैव गृह्यते कमिदं वैधयं रूपस्य ? न, गुणेभ्यो वैधर्म्यस्य विवक्षितत्वात् / तथा च प्रकृतेभ्यो निर्धारणार्थं तत्रेत्युक्तम् / सामान्यादस्य वैधयं तु सामान्यवत्त्वमेव / पृथिव्युदकज्वलनवृत्ति। पृथिव्युदकज्वलनेष्वेव वर्तते / द्रव्याधुपलम्भकम् / यस्मिन्नाश्रये वर्त्तते तस्य द्रव्यस्य तद्गतानां च गुणकर्मसामान्यानामुपलम्भकम् / नयनसहकारि। स्वगतं रूपं चक्षुषो विषय ग्रहणे सहकारि / शुक्लाद्यनेकप्रकारम् / शुक्लादयोऽनेके प्रकारा यस्य तत् तथाविधम् / सलिलादिपरमाणुषु नित्यम् / 'सलिलपरमाणुषु तेजःपरमाणुषु च नित्यम् / [टि०] [110 to 112] [अथ रूपरसनिरूपणम् ] ननु यद्यपि गुणेभ्य इदं वैधयं तथापि रूपत्वसामान्येन सह साधयं तदवस्थमेवेत्याह सामान्यादस्य इति / यदि ह्यकारणस्य इति :-ननु द्रव्योत्पादनद्वारेण तद्गतरूपं 'प्रत्यपि संयोगस्य कारणत्वात् कथमकारणस्य अथ रूपगुणे (णः) पिं०] [110] गुणेभ्यो वैधर्मास्य विवक्षितत्वादिति (कं. 104.8) शेष गुणेभ्यो हि रूपस्य वैधयं विवक्षित पुनः सामान्यात / रूपत्वं च सामान्यं न गुणः / प्रकृतेभ्य इति (कं. 104.9) रसादिभ्यः / स्वगतं रूपं चक्षषो विषय ग्रहणसहकारीति (कं. 104.12) चक्षुषः स्वगतं रूपं विषयग्रहणे सहकारि भवति / चक्षुर्हि तैजसं अतः स्वरूपसहकृतमेव पररूपं गृह्णातीति भावः / वक्ष्याम इति (क. 104.16) पाकजोत्पतौ। [कु०][110] नन्वस्तु चक्षुर्ग्राह्यत्वं गुणान्तरेभ्यो वैधयं रूपत्वसामान्यात्तु कथमित्यत आह सामान्यादिति (कं. 104.9) / तच्च सामान्यादीनां त्रयाणामित्यत्रोक्तमित्यर्थः / सङ्ख्यादीनामपि पृथिव्यादिवृत्तित्वात्कथमिदं वैधर्म्यमित्यत आह पृथिव्युदकज्वलनेष्वेवेति (कं. 104.10) / यस्मि[न्नि]ति (कं. 104.11) एतेन क्वचित्तु समवायात्क्वचिदेकार्थसमवायात्क्वचित्समवेतसमवायाच्च रूपस्य विषयोपलब्धि कारणत्वेन कारणस्थस्य पुरुषार्थहेतुत्व 1 सर्वकार्यद्रव्येषु-कं. भा. कि. भा.। 2 कारणपूर्व - दे। 3 नेन्द्रियान्तरेण रूपमेव चक्षाह्यम-जे. 1: जे. 2 / 4 ग्रहण - पं। 5 सलिलादि - जे. 1; जे. 2 / 6 प्रत्यभि-ड। 7 मकारणसंयोगस्येत्युक्तम् - अ, ब / 8 ग्रहणे - कं।