________________ 258. न्यायकन्दलीसंवलितप्रशस्तपादमाव्यम् ... न्यायकन्दली सम्प्रति प्रत्येकं गुणानां परस्परवैधर्म्यप्रतिपादनार्थमाह-रूपादीनामिति / रूपमादिर्येषां गुणानां तेषामेकैकं प्रत्यपरजाते रूपत्वादिकायाः सम्बन्धाद्रूपादिसंज्ञा रूपमिति रस 'इत्यादि संज्ञा भवन्ति / रूपत्वाद्यपरसामान्यकृता रूपादिसंज्ञा रूपादीनां प्रत्येक वैधर्म्यम् / 'रूपत्वादिसामान्यं नास्तीति केचित्, तदयुक्तम्, नीलपीतादिभेदेषु रूपं रूपमिति प्रत्ययानुवृत्तेः / चक्षुर्ग्राह्यतोपाधिकृता तदनुवृत्तिरिति चेन्न, तेषां रूपमित्येवं चक्षुषाऽग्रहणात् / तद्ग्राह्यतानिमित्तत्वे हि ग्रहणादनन्तरं तथा प्रत्ययः स्यात् / चक्षुह्यता तद्ग्रहणयोग्यता, सा च नीलादिषु त्रिकालावस्थायिनीति चेत् ? अस्तु कामम्, किन्त्वेषा यदि प्रतिरूपं व्यावृत्ता, प्रत्ययानुगमो न स्यात्, एकनिमित्ताभावात् / अथानुवृत्ता, संज्ञाभेदमात्रम् / एवं रसादयोऽपि व्याख्याताः / [टि०] सति रूपमिति प्रत्ययः स्यात्, न त्वेवमस्ति झटित्येव रूपमिति 'प्रत्ययोदयात् / ननु यदि साक्षाच्चक्षुर्ग्राहि (ह्य)तोपाधिः स्यात्तदा तावकीनो दोष: स्यात्, न त्वेवमस्ति, चक्षुर्ग्रहणयोग्यताया उपाधित्वात्तस्याश्च चक्षुरिन्द्रियग्रहणात्पूर्वकालमपि सत्त्वादित्येतदाशङ्कते चक्षु'प्राहिता तद्ग्रहणेति // ( इति गुणग्रन्थे साधयंवैधर्म्यनिरूपणम् // ) [पं०] सत्येवाश्रये 'न सन्तीति (कं. 103.14) आश्रये सत्यपि पाकजोत्पत्तेः प्रागमीषामभावात् / ___ प्रत्येकमिति (कं. 103.20-23) परपस्परम् / मीमांसकानाशङ्कयाह “रूपत्वमित्यादि (कं. 103.23) / तदनुवृत्तिरिति (कं. 103.24) रूपानुवृत्तिः। रूपमित्येवं चक्षुषाऽग्रहणादिति (कं. 103.25) / चक्षुषाग्रहणादिति चक्षुषा रूपमित्येव गृह्यते न तु रूपं रूपमित्यनु[गताकारः प्रत्यय इत्यर्थः / ग्रहणादिति (कं. 103.25) वस्तुग्रहणात् / तथा प्रत्यय इति (कं. 103.26) रूपं रूपमिति प्रत्ययः / [कु०] दर्शनादित्यर्थः / ग्रहणादनन्तरमिति (कं. 103.25) उपाधिग्रहणानन्तरमेवोपहितप्रत्ययेन भवितव्यमिति भावः / शकृते तत्रातीन्द्रियायां योग्यतायां प्रमाणाभावात् स्वरूपमेव योग्यता तदातिरिक्तारिक्तावी (पि) इन्द्रियग्राह्या ना[न इत्याह अस्तु काममिति (कं. 103.27) / द्वितीयमाशङ्कय परिहरति अथेति (कं. 103.28) / एवं रसादय इति (कं. 103.28) रसत्वादिजातिमत्त्वमिति शेषः / एतेनेन्द्रियविशेषग्राह्यतोपाधित्वे रूपाद्यनुवृत्तीनामितरेतराश्रयत्वं इन्द्रियविशेषे सिद्ध एव रूपाद्यनुवृत्त (त्ति) सिद्धिः रूपादिग्राहकत्वेनेन्द्रियविशेषसिद्धिरित्युक्तप्रायं द्रष्टव्यम् / 1 इति- कं.१; कं. 2 / 2 रूपत्व - कं. 1; कं. 2 / 3 प्रत्ययादयात् - अ, ब / 4 स्याम्ना-अ / 5. पूर्वमपि-ड। 6 चक्षुग्राह्यताद्-अ, ब / 7 नश्यन्तीति-कं / 8 रूपत्वसामान्य--कं। 9 मत्रयेति शेषः इत्यशुद्धं -ह. प्र।