________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 255 प्रशस्तपादभाष्यम् [108] 'परत्वापरत्वद्वित्वद्विपृथक्त्वादीनामकारणत्वम् / संयोगविभागशब्दात्मविशेषगुणानां प्रदेशवृत्तित्वम् / न्यायकन्दली समवायिकारणम् / उष्णस्पर्श उष्णस्पर्शस्यासमवायिकारणं पाकजानां निमित्तकारणम् / गुरुत्वं स्वाश्रये पतनस्यासमवायिकारणम् / 'नोदनाभिघातक्रियोत्पत्तौ निमित्तकारणम् / [ एवं ] द्रवत्ववेगयोरपि योज्यम् / [108] परत्वापरत्वादीनामकारणत्वम् / नैतान्यसमवायिकारणं नापि निमित्तकारणम् / द्वित्वद्विपृथक्त्वादीनामित्यादिपदेन त्रिपृथक्त्वानां परमाणुपरिमाणपरममहत्परिमाणयोश्च परिग्रहः / - संयोगविभागशब्दात्मविशेषगुणानां प्रदेशवृत्तित्वमिति / प्रदेशवृत्तयोऽव्याप्यवृत्तयः स्वाश्रये वर्तन्ते न वर्तन्ते चेत्यर्थः / नन्वेतदयुक्तम् , युगपदेकस्यैकत्र भावाभावविरोधात् / नानुपपन्नम्, प्रमाणेन तथाभावप्रतीतेः / तथा हि-महतो वृक्षस्य पुरुषेण सहाग्रे संयोगो मूले च तदभावः प्रतीयते, मूले वृक्षोपलम्भेऽपि संयोगस्य सर्वैर'नुपलम्भात् अग्ने [रि०] [108] युगपदकस्यैकत्र इति :-एकस्या धेयस्यकत्राधारे युगपद्भावाभावयोविरोधात् आधेयस्यापि विरुद्धधर्माध्या'सात् भेदप्रसङ्ग इति भावः / प्रमाणेनेति प्रत्यक्षेणेत्यर्थः / वृक्षे एव पुरुषस्य इति :-ननु यथा पुरुषस्य वृक्ष 'भाव एवं वृक्षप्रदेशेऽप्यस्ति तत्कथं वृक्षे एवेत्यवधारणं कृतम् ? सत्यम्, प्रस्तुताभिप्रायेणेदं कृतम् / प्रस्तुते हि [पं०] [108] प्रमाणेनेति (कं. १०२.२०)-प्रत्यक्षेण / मूले वृक्षोपलम्भेऽपि संयोगस्य (कं. 102.21) इत्यत्र गद्ये मूले संयोगस्य इति पदशेषः / [कु०] [108] नापि निमित्त "कारणत्वमिति (कं. 102.13) आत्मधर्मान् विहायेति शेषः / बुद्ध्यादीनां प्रति परत्वादीनामपि निमित्तकारणत्वात् / . ननु शब्दाश्रयस्यात्मनश्च प्रदेशा न सन्त्येव, घटपटादीनामवयवरूपप्रदेशसद्भावेऽपि संयोगविभागयोस्तन्मात्र-वृत्तित्त्वेऽवयवानामप्यवयवितया परमाणवत्तित्वपर्यवसानेऽतीन्द्रियत्वमेव पर्यवस्येदित्यत आह प्रदेशवृत्तयोऽव्याप्यवृत्तय इति (102.18) तदेत त्किमित्यत आह स्वाश्रय (कं. 102.19) इति / विधिनिषेधयोः स्वरूप इति विरोधं दृष्ट्वा 1 परत्वापरत्वद्विपृयक्त्वादीनाम्-जे.। 2 नोदनाभिघात:-कं. 1, कं. 2 / 3 रनुपलम्भात् न च-कं. 1, कं.२ / 4 स्यैकदा-अ, ब, क। 5 स्याध्येयस्यैकत्राधारे-अ, ब / 6 ध्यासप्रसङ्ग-अ। 7 सावग च-ड। 8 वृशेण-ड / 9. पदयोगः -ब। 10 कारणम्-कं; अत्रापि विशिष्टमित्यादिपाठः पुनरावर्तितः /