________________ 254 न्यायकन्दलीसविलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनानां निमित्तकारणत्वम् / संयोगविभागोष्णस्पर्शगुरुत्वद्रवत्ववेगानामुभयथा कारणत्वम् / . न्यायकन्दली कारणत्तिनामेषां 'कार्यसमानजातीयारम्भकत्वात् / शब्दस्य समवायिकारणसमवायादसमवायिकारणता, आकाशाश्रितेनाकाशे एव शब्दान्तरारम्भात् / सङ्घ चापृथक्त्वयोरुभयथा कारणत्वम्, कारणवत्तिनोस्तयोः कार्ये यथासङ्घयमेकत्वैकपृथक्त्वारम्भकत्वात्, स्वाश्रये द्वित्वद्विपृथक्त्वजनकत्वात् / बुद्धयादीनां निमित्तकारणत्वम् / तेषां निमित्तकारणत्वमेवेत्यर्थः / __संयोगविभागोष्णस्पर्शगरुद्रवत्ववेगानामभयथा कारणत्वम् / असमवायिकारणत्वं निमित्तकारणत्वं 'चेत्यर्थः / तथा हि-भेरीदण्डसंयोगः शब्दोत्पत्तौ निमित्तं भेर्याकांशसंयोगोऽसमवायिकारणम् / एवं वंशदलविभागो निमित्तं वंशदलाकाशविभागोऽ [टि०] एवं 'द्रवत्ववेगयोः इति-'द्रवत्वं स्वाश्रये 'स्यन्दनोत्पत्तावसमवायिकारणम्, सङ्ग्रहे निमित्तम्, वेगः स्वाश्रये कर्मप्रत्यसमवायिकारणं 'नोदकस्थितश्च नोदने निमित्तम, वेगवद् द्रव्यसंयोगस्यापि नोदनहेतुत्वात्। [पं०] कार्येति (कं. 101.26) द्वघणुके / कारणवत्तिनोरित्यादिगद्येन समवायिकारणकार्थसमवायो दर्शितः / यतो द्वयणुकमपि परमाणुद्वये समवेतम् / द्वित्वसङ्ख्यापि इति भावना। स्वाश्रये द्वित्वद्विपृथक्त्वजनकत्वादिति (कं. 101.26) स्थाश्रये व्यणुके द्वित्वं च द्विपृथक्त्वं च सङ्ख्यापृथक्त्वे कर्तृणी जनयतः / अत्र समवायिकारणसमवायः / एवं त्रिस्वत्रिपृथक्त्वादिजनकत्वमप्यूह्यम् / 'पाकजानामिति (कं. 102.10) पार्थिवरूपरसगन्धस्पर्शानाम्। "नोदनाभिघातेति (कं. 102.11) नोद्यनोदयोः परस्परमविभागहेतुः कर्म / नोदनादविभागहेतः कर्माभिघातः / कु०] बुद्धिमिव धर्माधर्मा (व) दपि प्रति द्रव्यादीनां त्रयाणां निमित्तत्वादात्मधर्म विहायेत्यभिप्रायात् / न च रसस्य जीवनपुष्टिबलारोग्यनिमित्तत्वेन विरोधः, आगमेतर (मान्त ) गम्यस्य निमित्तत्वस्य व्यवच्छेद्यत्वेनेहाभिसन्धानात् / न चाभिधानोत्पादेनाय(थ)क्रिययापेक्ष्यमाणस्पर्शविशेषस्य निमित्तत्वाद्विरोधः,. एकश्रेय (एककाश्र) कार्य प्रतीति विवक्षितत्वात् / संख्यापृथक्त्वयोरित्यर्थः / उभयथेति (कं. 102.6) समवायिकारणसमवायात् समवायकारणकार्थसमवाया चेत्यर्थः / द्रव्यादीनां त्रयाणामप्यात्मधर्मान् प्रति निमित्त कारणमविशिष्टं सत्कथं बुद्धयादीनामेवैतदित्यत आह निमित्त "कारणमेवेति (कं. 102.7) / स्वाश्रये पतनस्ये (कं. 102.10) त्युपलक्षणम् / कार्यगुरुत्वस्यापि कारणगुणत्व[म]समवायिकारणं भवत्येव / 1 सजातीया-कं. 1; कं. 2 / 2 कारणवत्तिनो कारणकार्थसमवायः, स्वाश्रये समवायिकारणसमवायः-जे. 1, टिप्पण। 3 चेति-जे.१, जे. 2 / 4 एवं विभागे दलविभागो-कं. 1, कं. 2 / 5,6 द्रव्यत्वद्रव्यत्वं - अ, ब / 7 स्यन्दनोत्तपत्त्या च समवायि - अ, ब। 8 नोदन -अ। 9 पाकमजानामिति अ-पुस्तके लेखनप्रमादजः पाठः / 10 नोदनाभिघातः-कं। 11 कारणं च-कं /