________________ टिप्पणपञ्जिकाकुसुनोद्गमादिटीकात्रयोपेतम् 253 न्यायकन्दली रूपादयः शब्दान्ता 'असमवायिकारणम् / समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम् / प्रत्यासत्तिश्च समवायिकारणसमवायः समवायिकारणकार्थसमवायश्च / सुखादीनां समवायिकारणमात्मा, तत्र समवायादात्ममनःसंयोगस्तेषामसमवायिकारणम् / नन्वेवं तहि धर्माधर्मयोरप्यसमवायिकारणत्वं स्यात्, न, तयोः समस्तात्मविशेषगुणोत्पत्तौ सामर्थ्यानवधारणात् / तथा हि-धर्मादधर्मदुःखयोरनुत्पत्तिः, अधर्माच्च धर्मसुखयोरनुत्पादः। एवं ज्ञानादीनामपि प्रत्येक व्यभिचारो दर्शनीयः / सर्वत्रावधृतसामर्थ्यस्तु ज्ञातृमनःसंयोग इत्येतावता विशेषेण तस्यैवासमवायिकारणत्वम् / तथा पटरूपस्य समवायिकारणेन पटेन सहकस्मिन्नर्थे तन्तौ समवायात् तन्तुरूपं पटरूपस्यासमवायिकारणं न रसादयः, तस्यैव तदुत्पत्तावन्वयव्यतिरेकाभ्यां सामर्थ्यावधारणात् / एवं रसादिष्वपि योज्यम् / उष्णस्पर्शस्य पाकजारम्भे निमित्तकारणत्वमप्यस्ति, तदर्थमनुष्णस्य ग्रहणम् / रूपरसगन्धानुष्णस्पर्शपरिमाणस्नेहानां समवायिकारणकार्थसमवायादसमवायिकारणत्वम्, [ टिकारणत्वव्यभिचारात / सर्वत्रावधत'सामर्थ्यस्तु इति :-समर्थे चकत्रवा समवायिकारणे कार्योत्पत्तौ 'जागरूकेऽनेककल्पनावैयर्थ्यम् / तदर्थमनुष्णग्रहणम् इति :-अनात्मधर्मापेक्षया चासमवायिकारणत्वं तेन रूपादीनां ज्ञानं प्रति 'निमितत्त्वेऽपि न तैर्व्यभिचारः। [पं०] धर्माधर्मयोरपीति (कं. 101.14) निमित्तकारणत्वेनेष्टयोः / असमवायिकारणत्वं स्यादिति (कं. 101.14) सुखादिष्वसमवायिकारणत्वं प्राप्नोतीत्यर्थः / समस्तात्मविशेषगुणोत्पत्ताविति (कं. 101.15) आत्मविशेषगुणा ज्ञानादयस्तेषामुत्पादे / सामर्थ्यानबधारणादिति (कं. 101.15) निमित्तकारणं हि तौ। द्वितीय प्रत्यासत्तिमाह तथा पटेल्यादि (कं. 101.18) / एकस्मिन्नर्थे तन्तौ समवायादिति (कं. 101.19) पटोऽपि तन्तुसमवेतः पटरूपमपीत्यर्थः / पाफजारम्भ इति (कं. 101.21) पाकजरूपाद्यारम्भे / “समवाय (यि) कारणसमवायादिति (कं. 101.24) समवाय (यि) कारणमाकाशः / उभययाकारणत्त्वमिति (कं. 101.25) समवायिकारणे कारण [का]र्थसमवायिकारणसमवायिकारणसमवायेन वा समवायिकारणत्त्वमित्यर्थः / कारणवतिनोरिति (कं. 101.26) पृथकपरिमाणद्वयस्थयोः / 10] एवं ज्ञानादीनामपि न सुखादिकं 'बुद्धयसमवायिकारणकम / "प्राच्येष्वन्यतेत्पादोता: प्रयत्नवदित्यादिप्रयोगः / अन्वयव्यतिरेकाभ्यामिति (कं. 101.20) तारतम्यानुविधाना[त्] इत्यर्थः / तदर्थमनुष्णेति (कं. 101.22) अत एव सावधारणमित्यनुसन्धेयम् / तथाऽरुणया क्रीणाति, वायव्यंगश्वेतमालभेत कपिलां न ताडयेदित्यादि श्रुतिस्मृतिबलाद् भयस्य धर्माधर्मोत्पत्ती निमित्तत्त्वा[द] स्यापि दर्शनाविरोधः / 1 समवायिकारणम्-न समवायिकारणमसमवायिकारणम् -जे. 1, जे. 2 / 2 योज्यते-कं. 1; कं. 2 / 3 सामर्थ्य स्थिति:-अ, ब। 4 ऽसमवायकारणे-अ, ब, क। 5 जागरूकेऽनक-अ। 6 मनुष्णस्पर्शग्रहणम्-मु., मनुष्णग्रहणम्- जे. 1, जे. 3 / 7 मितत्वे - अ। 8 समवायि इति शुद्धः पाठः सर्वत्र कं. पुस्तके। 9 एतत्पदानन्तरं बुद्धयसमवायिकारणेकार्थेत्यादिकः पाठोऽत्र पुनरावर्तितः ह. पुस्तके। 1. अर्थदष्टयेदं वाक्यमसम्बद्धं भाति-सं।