________________ 256 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली चोपलम्भात् / न च मलग्रयोरेव संयोगतदभावौ, तत्प्रदेशावच्छेदेन वृक्षे एव पुरुषस्य भावाभावप्रतीतेः। यदि प्रदेशस्य संयोगो न प्रदेशिनस्तदा प्रदेशस्यापि स्वप्रदेशापेक्षया प्रदेशित्वान्निष्प्रदेशे परमाणमात्रे संयोगः स्यात् / तदवत्तिस्तु संयोगो न प्रत्यक्ष इति संयोगप्रतीत्यभाव एव पर्यवस्यति / यथा च रूपादिभेदेऽप्येकोऽवयवी न भिद्यते तथा 'संयोगः, सदसद्भावाभ्यां तदभावाभ्यामपि, उभयत्रापि तदेकत्वस्य प्रत्यक्षसिद्धत्वात् / यद्यप्युभयाश्रयः संयोगस्तयोरुपलब्धा'वुपलभ्यत एव, तथापि तस्य रूपादिवद् गृह्यमाणाखिलावयवावच्छेदेनानुपलम्भादव्यापकत्वम् / एवं शब्दोऽप्याकाशं न व्याप्नोति, तत्रैवास्य देशभेदेनोपलम्भानुपलम्भाभ्यां युगपद्भावाभावसम्भवात् / बुद्धयादयो ह्यन्तर्बहिश्चोपलम्भानुपलम्भाभ्यामव्यापकाः / कथं तहि धर्माधर्माभ्यामग्न्यादिषु क्रिया, तयो'स्तद्देशेऽभावादिति चेन्न, तत्रासतोरपि तयोः स्वाश्रयसन्निधिमात्रेण निमित्तत्वात् / यथा वस्त्रस्यैकान्ते चाण्डालस्पर्शोऽपरान्तसंयुक्तस्य त्रैवणिकस्य प्रत्यवायहेतुस्तथेवमपि द्रष्टव्यम् / [टि०] तत्र परैः संयोगो न मन्यतेऽत एवकारेण 'प्रामाणिकत्वं तस्य व्यवस्थाप्यत इति / अथ संयोगभावाभावलक्षणविरुद्धधर्माध्यासात् पराभिप्राय प्रसञ्जितमवयविनो भेद निरस्यति-यथा च रूपादिभेदेऽपि इति :- रूपरसगन्भस्पर्शादीनामितरेतरभाववतां भेदेऽपीत्यर्थः / [कु.] सहानवस्थानभ्रमेण चोदयति नन्विति (कं. 102.19) / एकत्रमणि प्रमाणबाध्ये हि सहानवस्थानलक्षणो विरोध इत्याश्रयवान् परिहरति नानुपपन्नमिति (कं. 102.20) / सहावस्थाने प्रमाणं प्रत्यक्ष [प्रमाणतया हाति / प्रत्यक्षस्यान्यथासिहिमाशङ्कय परिहरति न चेति (कं. 102.22) / स्वरूपतद्धीनामपि [स] हावस्थाने दृष्टान्तमाह यथेति (कं. 102.25) / मूले च सन्नेव संयोगः सम्बन्धिनोरन्यतरस्यानुपलम्भेनापि नोपलभ्येतेति शङ्कामपनयति यद्यपीति (कं. 103.1) / तत्रैवास्य देशभेदेनेति (कं. 103.3) / यद्यप्याकाशस्य देशा न सन्ति निरवयवत्वात् तथापि प्रदेशवृत्तिसंयोगोपाधिना देशव्यवहारो द्रष्टव्यः / अन्तर्बहिरिति (कं. 103.4) शरीरापेक्षया द्रष्टव्यम् नन्वात्मविशेषगुणानां शरीरावच्छिन्नं च्छिन्नत्वं) शरीरवृत्तित्वे अग्न्यादीनामू_ज्वलनादिकमदृष्टकारितमिति विरुद्धमित्याशङ्कते कथं तौति (कं. 103.4) / परिहरति तत्रेति (कं. 103.5) / 1 संयोगतदभावाभ्या-कं. 1, कं. 2 / 2 वुपलभते-कं. 1, कं. 2 / 3 स्तद्देशेऽसम्भवात्-जे. 1, स्तद्देशासम्भवात् -जे.२। 4 प्रमाणकत्वं- अ,ब। 5 प्रायजितमवयविनो-भ।