________________ 250 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [105] सुखदुःखेच्छाद्वेषप्रयत्नाश्चासमानजात्यारम्भकाः / संयोगविभागसङ्घयागुरुत्वद्रवत्वोष्णस्पर्शज्ञानधर्माधर्मसंस्काराः समानासमानजात्यारम्भकाः / न्यायकन्दली [105] सुखादयोऽसमानजात्यारम्भकाः / सुखमिच्छायाः कारणं दुःखं द्वेषस्य इच्छाद्वेषौ प्रयत्नस्य सोऽपि कर्मणः / 'पुत्रसुखं पितरि सुखं जनयति, अन्यथा तस्य प्रमोदानुपपत्तिरिति चेत् ? तदसारम्, पुत्रस्य हि मुखप्रसादादिना सुखोत्पत्तिमनुमाय पश्चात् पितरि सुखं जायते / तत्रास्य पुत्रस्य सुखं न कारणम्, तस्यैतावन्तं कालमनवस्थानात् / किन्तु लैङ्गिको तद्विषया प्रतीतिः कारणमिति प्रक्रिया। संयोगादयः संस्कारान्ताः समानासमानजात्यारभ्भकाः / संयोगात् समानजातीय उत्तरसंयोगो विजातीयं द्वितूलके महत्परिमाणं, विभागाद्विभागः शब्दश्च, कारणगतैकत्वसजायातः कार्यवत्तिन्येकत्वसङ्खया, 'द्वित्वबहुत्वसङ्ख्याभ्यां चाणुत्वमहत्त्वे, गुरुत्वाद् [टि०] [105-106) पुत्रस्य हि मुखप्रसादादिना इतिः-नन्वब 'सुखोत्पत्त्यनुमानक्रियायाः पिता कर्ता जनिक्रियायास्तु सुलं कर्तृ ततो भिन्नकर्तृकत्वात् कथमनुमायेत्यत्र 'क्त्वा' प्रत्ययः ? सत्यम्, सुखं जायते इत्यस्य सुखत्वात् जायत : इत्यर्थः / अन्तर्भूतण्यर्थत्वाद् वा मिनोतेर्न दोषः / [पं०] [105] रूपा (सुखा) दयो गुणा असमानज्ञानजातीयानपि ज्ञानादीनात्मधर्मान् जनयती (न्ती)ति यावत् / अनुमाये (कं. 99.26) त्यत्र भिन्नकर्तृकत्वात्तेन [यु] युज्यते / चिन्त्यमेतद् / तद्विषयेति (कं. 100.1) पुत्रसुखविषया प्रक्रियेति सिद्धान्तः / संयोगात्समानजातीय उत्तरसंयोग इति (कं. 100.5) प्रथमं ह्याकाशाङगूलीयसंयोगस्तत्रागृल्यन्तरं संयुज्यते / कारणगतैकत्वसङ्ख्यात इति (कं. 100.7) कारणानि परमाणवः / कारणगतेति सर्वत्र योज्यम् / कार्यवर्तिनी (कं. 100.7) इति यथा एकं द्वयणुकम् / उष्णस्पर्शादिति (कं. 100.9) अग्न्यादिसत्वात् / [कु०] [105] सुखमिच्छाया इति (के. 99.24) यद्यपि सुन ज्ञाने न तज्जातीयसुखान्तरेच्छा तथापि ज्ञायमानं सुखमपि पूर्वभावित्वानियमेनेच्छाकारणमपि [एषि]तन्यमिति भावः / एवं दुःखस्य द्वेषकारणत्वमेव / ('सेयं) ____ अणुत्वमहत्त्वे इति (कं. 100.8) द्वयणुकेऽणुत्वं परमाणुत्वेन पारिमाण्डल्यस्य कारणत्वाभावादिति भावः / गुरुत्वादयविनि गुरुत्वम् / 'जानाजानमिति (कं. 100.9) लिङ्गज्ञानाल्लिङ्गिज्ञानम् / धर्माद्धर्म इति (कं.१००.१०) यवाप्ज: धनं वादृष्टपर्यतं शिवपूजाविधेः फलम् / स्मरणं चेत्यु (कं. 100.10) पलक्षणं; क्रिया चेत्यपि द्र[ष्टव्यम् / भत्र स्नेहोऽप्यु पसङ्ख्येयः, अवयवस्नेहादवयविस्नेहः, समानजातीयेऽपि सङ्ग्रहारम्भे न विरोधः / 1 पुत्रस्य सुखं-जे. 2 / 2 द्वित्वसङ्ख्या -जे.१। 3 मुखोत्पत्त्य-अ, ब; सुखोत्पत्त्या -क। 4 जायते-अ / 5 अत्रायं पाठो व्यर्थो भाति-सं। 6 ज्ञानाज्ञान-ह. प्र.। 7 धर्माधर्म-ह. प्र.।