________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपैतम् 251 प्रशस्तपादभाष्यम् [106] बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमवेतारम्भकाः / __ रूपरसगन्धस्पर्शपरिमाणस्नेहप्रयत्नाः परत्रारम्भकाः। संयोगविभागसङ्खयैकपृथक्त्वगुरुत्वद्रवत्ववेगधर्माधर्मास्तूभयत्रारम्भकाः / न्यायकन्दली गुरुत्वान्तरं पतनं च, द्रव्यत्वाद् द्रवत्वान्तरं स्यन्दनक्रिया च, उष्णस्पर्शादुष्णस्पर्शः पार्थिवपरमाणुरूपादयश्च, 'ज्ञानाज्ज्ञानान्तरं संस्कारश्च, धर्माद्धर्मः सुखं च, अधर्मावधर्मान्तरं दुःखं च, संस्कारात् संस्कारः स्मरणं च / [106] बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमवेतारम्भकाः / सुखादयस्तावद्यत्र स्वयं वर्तन्ते तत्रैव कार्य जनयन्ति / बुद्धिस्तु द्वित्वादिकं परत्रारभमाणाप्यात्मविशेषगुणं जनयन्ती स्वाश्रयसमवेतमेव जनयति, नान्यत्र / रूपरसगन्धस्पर्शपरिमाणस्नेहप्रयत्नाः परत्रारम्भकाः। 'अवयवेषु वर्तमाना रूपादयो यथासम्भवमवयविनि रूपादिकमारभन्ते, आत्मनि समवेतः प्रयत्नो हस्तादिषु क्रियाहेतुः / संयोगादय उभयत्रारम्भकाः / स्वाश्रये तदन्यत्र चारम्भकाः / तन्तुषु वर्तमानः संयोगस्तेष्वेव पटमारभते, विषयेन्द्रियसंयोगश्चात्मनि ज्ञानम् / वंशदलयोविभागोऽ [टि०] द्वित्वबहुत्वेति - परमाणुद्वयगतद्वित्वसङ्ख्यया 'द्वयणुकेऽगुपरिमाणोत्पत्तिः 'परमाणुगताणुत्वस्य द्वयणुकाणुत्वं प्रत्यकारणत्वात् / कारणगतेन हि परिमाणेन कार्ये परिमाणं जन्यमानं स्वतः प्रकृष्टमेव जम्यते 'यथा महदभ्यां * मृत्पिण्डाभ्यामेको ‘महत्तरो मृत्पिण्डः, तथा च परमाणुपरिमाणात् द्वयणुकेऽणुतरपरिमाण मुत्पद्यतेति / [पं०] [106] बुद्धिस्तु द्वित्वादिकमिति (कं. 100.14) 'अपेक्षाबुद्धिजा सङ्ख्या' इति वचनात् / परत्रेति - (कं. 100.14) चैत्रादौ / आत्मविशेषगुणमिति (कं. 100.15) सुखादिकम् / / तेष्वेव पटमारभते इति (कं. 100.23) स्वाश्रयारम्भकोदाहरणत्वे तत / विषयेन्द्रियसंयोगश्चात्मनि ज्ञानमिति .. (कं. 100.23) तदन्यत्रारम्भकत्वोदाहरणमेतत् / वंशदलयोविभाग (कं. 100.23) इति निमित्तकारणम् / वंश [कु.] [106] प्रयत्नो हस्तादिष्विति (कं. 100.19) विहितनिषिद्धविषय इति शेषः / ततश्च विहितनिषिद्धविषयप्रवृत्तिरूपप्रयत्नेन, स्वाश्रये धर्माधर्मारम्भेऽपि न विरोधः / उ[भ]यत्रारम्भकेषु सङ्ग्रहहेतुस्नेहः / क्रिया धर्माधर्महेतुविहितनिषिद्धविषयः प्रयत्नः उभयसङ्ख्येयः विशिष्यत इति संयोगत्वावान्तरजातिभेदेन वक्ष्यते कर्मकाण्डे / १ज्ञानाज्ज्ञानं-कं. 1, कं. 2 2 दधर्मो-कं. 1, कं. 2 3 अवयवे-जे. 1, जे. 2 / 4 द्वयण के परिमाणोत्पत्तिः-अ। 5 गताणुवस्य-ड। 6 परमाणेन-अ। 7 तथा-अ, ब, क। 8 महत्तरोत्पिण्डमुद्धा च , -अ, ब। 9 मुत्पद्यते - अ, ब, क। 10 विज्ञानमिति-कं /