________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 249 प्रशस्तपादभाष्यम् [104] संयोगविभागवेगाः कर्मजाः / शब्दोत्तरविभागौ विभागजौ। परत्वापरत्वद्वि'त्वद्विपृथक्त्वादयो बुद्धयपेक्षाः / रूपरसगन्धानुष्णस्पर्शशब्दपरिमाणकत्वैकपृथक्त्वस्नेहाः समानजात्यारम्भकाः / न्यायकन्दली [104] संयोगविभागवेगाः कर्मजाः। आद्यौ संयोगविभागौ कर्मजौ / 'अकारणगुणपूर्वकोऽपि / शब्दोत्तरविभागौ विभागजौ / आद्यः शब्दो विभागादपि जायते, 'उत्तरो विभागो विभागादेव जायत इति विवेकः / परत्वापरत्वद्वित्वद्विपृथक्त्वादयो 'बुद्धयपेक्षाः / एषाभुत्पत्तौ निमित्तकारणं बुद्धिः / आविशम्यात् त्रित्वत्रिपृथक्त्वादिपरिग्रहः / रूपादयः स्नेहान्ताः समानजात्यारम्भकाः। कारणरूपात कार्यरूपं रसासो गन्धाव् गन्धः स्पर्शात् स्पर्शः स्नेहात् स्नेहो महस्वाम्महत्त्वमित्यादि योज्यम् / शब्यस्तु स्वाभये एव 'शब्दान्तरारम्भकः / 'अत्र च कारणत्वमात्रं विवक्षितम्, न त्वसमवायिकारणत्वम् ; अन्यथा विजातीयानां पाकजानां निमित्तकारणस्योष्णस्पर्शव्यवच्छेवोऽसङ्गतार्थः स्यात् / नन्वेवं तहि कथं रूपादीनां ज्ञानकारणत्वम् ? न, तव्यतिरेकेण समानजातीयारम्भकत्वस्याभिप्रेतत्वात् / [टि०] तद्व्यतिरेकेणेति :- आत्मधर्मव्यतिरेकेणेत्यर्थः / .[पं०] [104] विभागादपीति (कं. 99.9) न केवलं संयोगात् / बुद्धधपेक्षा इति (कं. 99.12) अपेक्षाबुद्धिजाः / स्वाश्रय इति (कं. 9918) भेर्यादौ / विजातीपानामिति (कं. 99.19) असमवायिकारणेषु हि निमित्तं कारणं विजातीयम्। पाकजानामिति (क. 99.19) रूपादीनाम् / नन्वेवमिति (कं 99.20) कोऽर्थः? रूपादीनां समानजात्यारम्भकस्वे स्वीक्रियमाणे इत्यर्थः / तद्व्यतिरेकेणेति (कं. 99.21) तच्छब्देनात्मधर्मास्ततश्च आत्मि] धर्मम्यतिरेकेणेत्यर्थः / . कु०] [104] संयोगादिसामान्योक्तावपि सामर्थ्याद्विशेषे विश्रान्तिरित्याह आधादिति (कं. 99.7) / [विभागादपोत्यपि (कं. 99.9) शब्दो नियमब्धावृत्तये। संयोगशब्दाभ्यामपि शब्दोत्पत्तेः / निमित्तकारणं बुद्धिरिति (कं. 99.12) अप्रत्यासत्ते समवायिकारणमित्यर्थः / उष्ण स्पर्शस्य व्यवच्छेद इति (कं. 9920) संग्रहनिमित्तस्य स्नेहस्य चेति शेषः / 'तव्यतिरेकेण (कं. 99.22) भास्मधर्मव्यतिरेकेण / 1 द्वित्वपृथक्त्वादयो-जे, व्यो. (435) / 2 पाठोऽयं - कं. 1, कं. 2 पुस्तकयो स्ति / 3 उत्तरविभागो-जे.। 4 बुढ्यपेक्षा:-अपेक्षाबुद्धिजाः टिप्पण-जे.१। 5 शब्दारम्भकः-जे.१, ने. 2 / 6 अष कारणत्वं-कं. 1, कं. 2 / 7 स्पर्शव्यवच्छेदः - कं। 8 तव्यतिरेकिण-ह. प्र. / 32