________________ 248 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [103] बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्म भावनाशब्दा अकारणगुणपूर्वकाः / बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्द'तूलपरिमाणोत्तरसंयोगनैमित्तिकद्रवत्वपरत्वापरत्वपाकजाः संयोगजाः / न्यायकन्दली न व्यभिचारः / 'एषां च कारणगुणपूर्वकत्वाभिधानं स्वरूपकथनं न त्ववधारणार्थम्, नैमित्तिकद्रवत्ववेगयोरकारणगुणपूर्वकत्वस्यापि सम्भवात् / कारणगुणपूर्वकत्व मनयोगवदारब्धजलावयविसमवेतयोर्द्रष्टव्यम् / [103] बुद्धयादयः शब्दान्ता अकारणगुणपूर्वकाः स्वाश्रयस्य यत्समवायिकारणं तद्गुणपूर्वका न भवन्ति, नित्यगुणत्वात् / बुद्धयादयः संयोगजाः / बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना आत्ममनःसंयोगजाः / शब्दो भेर्याकाशसंयोगजः / तूलपरिमाणं प्रचयाख्यसंयोगजम् / उत्तरसंयोगः संयोगजः संयोगोऽभिमतः / नैमित्तिकद्रवत्वं वह्निसंयोगजम् / परत्वापरत्वे दिक्कालपिण्डसंयोगजे / पार्थिवपरमाणुरूपरसगन्धस्पर्शा वह्निसंयोगजा इति विवेकः / [टि०] प्रचयाख्येति प्रचयः प्रशिथिलसंयोगविशेषः / [पं०] [103] स्वाश्रयस्येति (कं. 98.22) मनःसंयोगस्य भेर्यादेश्च / यत्समवायिकारणमिति (कं. 98.22) आत्माकाशलक्षणम् / नित्यगुणत्वादिति (कं. 98.23) नित्ययोरात्माकाशयोहि गुणा एते 1 प्रचयाख्यसंयोगजमिति (कं. 99.2) प्रशिथिल: संयोगः प्रचय इत्युच्यते / उत्तरसंयोगः संयोगजः संयोगोऽभिमत इति (कं. 99.3) यथा तन्तुवायसक्ततन्तुतणसंयोगात् तन्त्वन्तरसंयोगो भवति / कर्मजौ इति (कं. 99.7) यत्र धनुर्मुक्तशरादौ। अकारणगुणपूर्वकोऽपोति अपिशब्दात्कारणगुणपूर्वकश्चानन्तरमेवोक्तः / [कु०] अपाक जपदस्य विश्लिष्टस्थ द्रवत्व [त्वा] पादना[न] त्वयानुपपत्तेः, वेगस्य कर्म ? 'यस्यापि सम्भवादिति / पूर्वोक्तसाधर्म्यविपर्ययम् / [103] बुद्धयादीनां साधर्म्य विवक्षत् तदनुसारेण व्याचष्टे स्वाश्रयस्येति (कं. 98.22) / नित्यगुणत्वादिति (कं. 98.23) स्वाश्रयस्य समवायिकारणविरहादिति भावः / ___बुद्धयादयः संयोगजा इति (कं. 99.1) एतद्गुणान्तरेभ्य एव वैधयं न तु द्रव्यकर्मभ्यां तयोरपि संयोगजत्वात् / तत्र विभागमाह- बुद्धिसुखेति (कं- 99.1) / शब्द इति शब्दविशेषोऽभिमतः / विभागजे शब्दजे... संयोगजत्वाभावादित्याह शब्द इति (कं. 99.2) / तूलपरिमाणमिति (कं. 992) समानसंख्यापरिमाणैरारब्धे (द) द्रव्ये सजातीयपरिमाणापेक्षयाधिकपरिमाणस्योपलक्षण...शिथिलसंयोगः / प्रचयः संयोगजः संयोगः संयोगकाण्डे वक्ष्यति / 1 भावनास्त्वकारणगुणपूर्वकाः - दे। 2 स्थूल-जे। 3 एषां कारण - कं. 1, कं. 2 / 4 तयोः- जे. 1, जे. 3 / 5 तत्पूर्वका:-जे. 3 / 6 नैमित्तिकद्रवत्ववेगयोरकारणगणपूर्वकत्वस्यापि सम्भवात-कं /