________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 247 प्रशस्तपादभाष्यम् [102] गुरुत्वधर्माधर्मभावना ह्यतीन्द्रियाः / अपाकजरूपरसगन्धस्पर्शपरिमाणकत्वैक पृथक्त्वगुरुत्वद्रवत्वस्नेहवेगाः कारणगुणपूर्वकाः। न्यायकन्दली [102] गुरुत्वधर्माधर्मभावना अतीन्द्रियाः, न केनचिदिन्द्रियेण गृह्यन्त इत्यर्थः / अपाकजरूपादयो वेगान्ताः कारणगुण पूर्वकाः स्वाश्रयस्य यत्समवायिकारणं तस्य ये गुणास्तत्पूर्वका रूपादयः, तन्तुरूपादिपूर्वकाः पटरूपादयः, नियमेन तद्धर्मान विधानात् / अतत्पूर्वकत्वे हि पटे यत्किञ्चिद् गुणान्तरं स्यान्नियमहेतोरभावात् / ___ एतेनैकमेव सर्वत्र शुक्लं रूपं प्रत्यभिज्ञानादिति प्रत्युक्तम् / तरतमादिभावानुपपत्तिप्रसङ्गाच्च / तस्मात्सामान्यविषया प्रत्यभिज्ञा / पार्थिवपरमाणुरूपादयः पाकाद्वह्निसंयोगाज्जायन्ते न तु परमाणुसमवायिकारणाश्रितरूपादिपूर्वकाः, अतस्तनिवृत्त्यर्थमपाकजग्रहणम् / सिद्धायामुत्पत्तौ कारणगुणपूर्वकत्वमकारणगुणपूर्वकत्वं चेति निरूपणीयम् / जलादिपरमाणुरूपादीनां चोत्पत्तिरेव नास्तीति [टि०] [102, 103, 104] केचित् 'सामान्यवत् शुक्लादिगुणानपि व्यापकान् नित्यान्नाहुस्तन्निराचष्टे एतेनेकमेव इत्यादि / [पं०] [102] उत्पत्तिरेव नास्तीति (कं. 98.16) पार्थिवपरमाणुरूपादीनां हि पाकजोत्पत्तिरस्ति जलादिपरमाणुरूपादीनां तु पाकजोत्पत्तिरेव नास्ति नित्यत्वादित्यर्थः / अनयोरिति (कं. 98.19) द्रवत्ववेगयोः / वेगवदित्यादि (कं. 98.19) वेगवद्भिराप्यपरमाणुभिरारब्धो यो जलावयवी प्रवाहद्वयरूपस्तत्समवेतयोः / [कु०] [102] कारणगुणपूर्वका इत्यत्र कारणगुणशब्दस्य कर्मधारयत्वे द्रव्यकर्मणां द्वित्वादोनां च तथाविधत्वेन तपादीनामेव वैधयं स्यात् : अन्तःषष्ठीसमासं स्वाश्रयापेक्षया कारणत्वं वाऽश्रित्य व्याचष्टे स्वाश्रयस्येति (कं.९८.९)। पूर्वभावित्वं प्रत्यासत्तिश्च पटरूपापेक्षया तन्तुरूपादीनामविशिष्टं ततश्च रूपस्य रसोऽपि कारणं स्यादिति शङ्का निरस्यति तन्तुरूपादीति (कं. 98.10) / सजातीयमेव कारणमित्यभिप्रायः / अत्र प्रमाणमाह नियमेनेति (कं. 98.. 11) / अत्र प्रयोग: पटरूपादयः सजातीयांस्तन्तुरूपादीनपेक्ष्योत्पद्यन्ते तत्तारतम्यानुविधायित्वात् यद्य [द] पेक्ष्य न भवति तत्तारतम्यं नानुविधत्ते यथा रूपाद्यनपेक्षं कर्मेति व्यतिरेकी तर्कमाह- 'अतत्पूर्वकत्वेति (कं. 98.11) / यत्किञ्चिदिति (कं. 98.11) पटरूपादिकं तन्तुरूपादितारतम्यं नानुविदधीतेति भावः / एतेन तन्तुरूपादिभ्यः पटरूपादीनां भेदप्रतिपादनेन एकत्वे कार्यकारणभावानपपत्तेः। हेत्वन्तरमाह-तरतमेति (कं. 98.13) / सिद्धायामिति (कं. 98.15) कारणविशेषविधेः कारणसामान्यविधिनान्तरीयकत्वादिति भावः / स्वरूपकथनमिति (कं. 98.17) 1 पूर्वाः-जे. 1, जे. 2 / 2 सामान्यवत-अ,ब3 3 अतत्पूर्वकत्वे-कं।