________________ 246 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली [101] अथोच्यते - विषयेन्द्रियादिजन्यं विज्ञानं कथमात्मन्येव समवैति ? यद्यात्मा सहजज्ञानमयो न स्यात्। तस्याचेतनत्वे हि कारणत्वाविशेषादिन्द्रियादिष्वपि जानसमवायो भवेदिति / तत्र स्वभावनियमादेव नियमोपपत्तेः। यथा तन्तूनाम'पटात्मकत्वेऽपि तन्तुत्वजातिनियमात्तेषु समवायो न तुर्यादिषु, तद्वदचिदात्मकेऽप्यात्मन्यात्मत्वजातिनियमाद् ज्ञानसमवायस्य नियमो भविष्यति / एतेनैतदपि प्रत्युक्तं यदाहुरेके 'स्वसंवेदनमात्मनो निजं चैतन्यम्' इति; संसारावस्थायामपि तस्यावभासप्रसङ्गात् / 'अविद्यया वा तस्य तिरोधानमिति चेत् ? किं ब्रह्मणोऽप्यविद्या ? 'का च नित्ये स्वप्रकाशे तिरोधानवाचोयुक्तिः ? न च तिरोहिते तस्मिन्नन्यस्य प्रतिभानमस्ति, 'तस्य भासा सर्वमिदं भाति' इति श्रुतेः / भासते चेत् ? 'सर्वस्य मुक्तिः, विद्याविर्भावे सत्यविद्याविलयात् / अथेयं न विलीयते ? न तहि विद्याप्रकाशस्तस्या विलयहेतुरित्यनिर्मोक्षः। निर्भागस्यैकदेशेन प्रतिभानमनाशङ्कनीयम् / [टि०] [101] एतेनैतदपि प्रत्युक्तं यदाहुरेके इति :-वेदान्तवादिन इत्यर्थः / 'का च नित्ये इति :-निरवयवस्यामूर्तस्य ‘स्वप्रकाशस्यावरणसम्भवाभावात् / ननु सर्वं तावदावृत्तं परं यस्यैकस्य मोक्षस्तस्मिन्नेकत्र देशे प्रतिभानं भविष्यतीत्याह-निर्भागस्य इति / 'सावयवस्यैवैकदेशसम्भवात् तत्रावरणं सम्भवति न तु निरवयवस्येति / [पं०] [101] आत्मत्वजातिनियमादिति (कं. 97.22) समवार्यिकारणत्वनियमादिति / / एके (कं. 97.23) इति-वेदान्तवादिनः / निजमिति (97.25) नित्यम् / नित्ये स्वप्रकाशे इति (क. 97 26) निरवयवस्यामूर्तस्य स्वप्रकाशस्यावरणसम्भवाभावादिति भावार्थः / ननु सर्व तावदावृत्तं यस्यैकस्य मोक्षस्तस्मिन्नेका देशे संसारावस्थायामपि प्रतिभानं "न भविष्यतीत्याशङ्कयाह निर्भागस्यैकदेशेनेत्यादि (कं. 98.3) / सावयवस्यैकदेशे सम्भवातत्र प्रतिभा सम्भवति न तु निरवयवस्य स्वप्रकाशस्यैकदेशेन प्रतिभानं सम्भवतीत्यर्थः / इति प्रत्युक्तमिति (कं 98.12) एतन्मीमांसकमतनिषिद्धमित्यर्थः / [कु०] [101] सहजज्ञानमय इति (कं. 97.19) अन्नमयो यज्ञ इति वत्तत्प्रकृतवचनेन [म] यट नत्वविकारे आत्मनो ज्ञानविकारत्वस्य परेणाप्यनभिमतत्वान्, नापि स्वरूपे अनुशासनविरोधात्, विज्ञानात्मवादस्य प्रागेव निराकरणाच्च / किं ब्रह्मणोपीति (कं. 97.25) स्वयंप्रकाशनित्यचिदात्मके तद्विरोधिगुणसम्बन्धस्यानुपपत्तेरिति भावः / इह तिरोधानं विषयविनाशो वा आवरणं वा ? नाद्य इत्याह नित्य इति (कं. 97.25) / न द्वितीय इत्याह स्वप्रकाश इति (कं. 97.26) / प्रतिभासो तावत्संसारावस्थायामिति शेषः / अंशस्फुरणाद् विषयज्ञानम्, अंशान्तरे वा स्फुरणादविद्यासम्बन्धश्चेति शङ्कां निरस्यति निर्भागस्येति (कं. 98.3) / 1 अपटत्वेऽपि-कं. 1, कं. 2 / 2 अविद्यया तस्य-जे. 1, जे. 3 / 3 कथं-कं. 1, कं. 2 / 4 अन्यप्रतिभानम्कं. 1, कं. 2 / 5 विभाति-कं. 1, कं. 2 / 6 सर्वमुक्ति :- कं. 1, कं. 2 / 7 कथं च-मु. का चजे. 1. जे. 3, 8 स्वस्ये प्रकाशेस्थावरणसम्भवात-अ, स्वप्रकाशस्थावरणसम्भवात-ब; 9 सोऽवयव - अ%3B 10 'न' इति 'ब' पुस्तके नास्ति /