________________ 244 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली बुद्धिरनुमेया नान्तःकरणेन गृह्यत इति केचित्, तदयुक्तम्, लिङ्गाभावात् / न तावदर्थमात्रं लिङ्गम्, तस्य व्यभिचारात् / ज्ञातोऽर्थो लिङ्ग चेत् ? ज्ञानसम्बन्धो ज्ञातता, याऽसौ ज्ञानकर्मता सा प्रतीयमाने ज्ञाने न प्रतीयते, 'सम्बन्धिप्रतीतिनान्तरीयकत्वात् सम्बन्धप्रतीतेरिति कथं तद्विशेषणार्थो लिङ्गं स्यात् ? लिङ्गवल्लिङ्गविशेषणस्यापि ज्ञायमानस्यैवानुमान हेतुत्वात् / अथ मन्यसे 'ज्ञानेन स्वोत्पत्त्यनन्तरमर्थे ज्ञातता नाम काचिदवस्था जन्यते 'पाकेनेव तण्डुलेषु पक्वता, सा चार्थधर्मत्वादर्थेन सह प्रतीयते' इति / तदप्यसारम् अननुभवात् / यथा हि तण्डुलानामेवौदनीभावः पक्वताऽनुभूयते नैवमर्थस्य ज्ञातता। या चेयमपरोक्षरूपता 'हानादिव्यवहारयोग्यता च तस्य, साऽपि हि ज्ञानसम्बधो न 'धर्मान्तरम् / यथा चार्थे ज्ञायमाने ज्ञातता, तथा ज्ञाततायामपि ज्ञायमानायां ज्ञाततान्तरमित्यनवस्था / अथेयं स्वप्रकाशा? ज्ञाने कः प्रद्वेषः ? [वि.] ज्ञातृव्यापाररूपता / ननु यदि तज्ज्ञानं नित्यं तहि विषयसंवेदनं सततमेव प्रसज्यते न तु कदाचिदेव विषयसान्निध्य इत्येतदाचार्यनोद्यमाशङ्कय पर: प्राह कादाचित्कविषयेन्द्रियति / [पं०] इत्युच्यत इति भावः / सम्बन्धि प्रतीतिनान्तरीयकत्वात्सम्बन्धप्रतीतेरिति (कं. 96.22) क्रियाकर्मक्रियाकर्मणी सम्बन्धिनौ / सम्बन्धः क्रियाकर्मत्वम् / तद्विशेषण इति (96.23) ज्ञानविशेषणः / लिङ्गविशेषणस्येति (कं. 96.24) ज्ञातत्वस्य / 'पाकैरिति (कं. 96.25) अग्निसंयोगैः। "साऽप्यथार्थधर्मत्वादर्थेन सह प्रतीयत इति (कं. 96.26) को भावः ? प्रथम ज्ञातताऽर्थधर्मत्वादर्थन सह प्रतीयते ततो ज्ञानावस्थोऽर्थो बद्धिमनमापयतीति भावः / तस्येति (कं. 97.2) अर्थस्य / ज्ञाततान्तरमिति (कं. 97.4) ज्ञातता हि ज्ञाता सती अनुमापयति / [कु०] वक्तव्यं तत्राह यथेति (कं. 97.1) / नवमर्थस्येति (कं. 97.1) अर्थधर्मस्य प्रमातृनियमानुप[प]त्तेः, ज्ञाततायां च तत्सम्भवादसमवायिकारणाभावाच्च / द्वित्वादिसाम्यानप[प]त्तेरिति भावः / यथार्थज्ञानेन न कोऽपि विशेषो जन्यते तीज्ञातेः सह सामान्यं स्यात्ततश्च ज्ञानादिव्यवहारोऽपि न सिद्धयेदित्यत आह या चेयमिति (कं. 97.2) / अथेयमिति (कं. 97.4) ज्ञाततान्तरविरहेऽपि यदि ज्ञानव्यवसी यमानता] " तर्थविषयमपि ज्ञानमेवमेवास्त्विति ज्ञातताविषयं ज्ञानं स्वयं प्रकाशेन मनसाऽनुव्यवसीयेत तीर्थविषयमपि ज्ञानमेवमेवास्त्विति तात्पर्यानापसिद्धान्तः। 1 सम्बन्धिप्रतीत्यधीनत्वात् - कं. 1, कं. 2 / 2 तद्विशेषेणोऽर्थो - कं. 2, तद्विशेषणोऽर्थो - जे. 1, जे. 3 / 3 -हेतृत्वम-कं. 1, कं.२। 4 पाकैरिव-जे.१, जे.२। 5 -हानादियोग्यता-जे. 3 / 6 न धर्मान्तरधर्मान्तरम् - कं.१। 7 प्रतीत्यधीनत्वात्-कं। 8 तद्विशेषणार्थो-कं। 9 पाकेन-कं / 10 सा च-कं / 11 अत्र वाक्यमिदं पुनरावृत्तमिव भाति-सं /