________________ टिप्पणपञ्जिकाकूसमोद्गमादिटीकात्रयोपेतम् 243 प्रशस्तपादभाष्यम् सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वनैमित्तिकद्रवत्ववेगाः सामान्यगुणाः। शब्दस्पर्शरूपरसगन्धा बायकैकेन्द्रियग्राह्याः / सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवस्वस्नेहवेगा द्वीन्द्रियग्राह्याः / बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नास्त्वन्तःकरणग्राह्याः / न्यायकन्दली सङ्घयादयः सामान्यगुणाः / सामान्याय 'स्वाश्रयसाधाय गुणाः, न स्वाश्रयविशेषायेत्यर्थः / नन्वणुपरिमाणं परमाणूनां व्यवस्थापकम् ? 'न, तस्य जात्यन्तरपरमाणुसाधारणत्वात् / सांसिद्धिकद्रवत्वमपां 'वैशेषिकगुण एव तेन नैमित्तिकग्रहणम् / शब्दस्पर्शरूपरसगन्धा बाघकैकेन्द्रियग्राह्याः। बाह्यानीन्द्रियाणि चक्षुरादीनि बाह्यार्थप्रकाशकत्वात् / तैः 'प्रत्येक रूपादयो गृह्यन्ते / / सङ्घयादयो वेगान्ता द्वीन्द्रियग्राह्याः-चक्षुस्पर्शनग्राह्याः। यथा चक्षुषा 'स्निग्धोऽयम्' इति प्रतीतिरेवं त्वगिन्द्रियेणापि भवतीति, सङ्घचादिवत् स्नेहोऽपि तदुभयग्राह्यः / बुद्धयादयः प्रयत्नान्ता अन्तःकरणग्राह्याः, मनसा प्रतीयन्त इत्यर्थः। [टि०] तथा 'ज्ञाततायामपि इति:-जिज्ञासाया अभावेनानवस्थापरिहारो वैशेषिकाणामिव मानसे प्रत्यक्षे समानः / परं ज्ञातताया अनुभव अपरोक्षताप्रतिभासस्य तु ज्ञानरूपत्वमित्येव सदुत्तरम् / न ज्ञानेन क्रियते इति:-कार्यकारण[भावा] भावान्न तयाऽनुमानं सम्भवति / अस्य कारणम् इत्यादि:-अस्य विषयसंवेदनस्य कारणम् / तस्य च मूलज्ञानस्य [पं०] सांसिद्धिकमिति (कं. 96.9) स्वाभाविकम् / बाह्यार्थ"प्रकाशकत्वमिति (कं. 96.13) साक्षादिति ज्ञेयमन्यथा पारम्पर्येण मनसोऽपि कारणत्वात् / केचिदिति (कं. 96.20) भाट्टाः। तस्य व्यभिचारादिति (कं. 96.21) कुड्यान्तरितार्थेन व्यभिचारः / कुड्यान्तरितार्थे सत्यपि तद्बुद्धेरननुमानात् ज्ञानसम्बन्धो हि" ज्ञाततेति (कं. 96.21) ज्ञानविषयीकृतो ह्यर्थो ज्ञात . [कु०] बाह्यार्थे ति (कं. 96.13) आत्मनस्तद्गुणेभ्यश्चान्येषां ग्राहकत्वादिति / इह प्रथमत एवार्थो ज्ञायमानो ज्ञाततया सह जायत इति न युज्यते इतरेतराश्रयप्रसङ्गात् / ज्ञानेन ह्यत्पन्नेन शासता जन्यते तत् सहितमर्थमवलम्ब्य ज्ञानोत्पत्तिरिति / तस्मादुत्तरकालं ज्ञानान्तरेण ज्ञाततासहितार्थो ज्ञायत इति 1 पाठोऽयं दे पुस्तके भ्रष्ट: / 2 सामान्याय साधाय-जे.१। 3 न जात्यन्तरं-कं. 1; कं. 2 / 4 विशेष -कं.१; कं.२। 5 एफैकशः-जे. 1, जे 3 / 6 पाठोऽयं-जे. 1, जे. 2 पुस्तकयो स्ति। 7 भवति - कं. 1, कं. 2 / 8 ज्ञातयोयामपि-अ, ज्ञातयायामपि-ब; 9 समानं-अ, ब, क; 10 'प्रकाशकत्वात् - कं, ब। 11 'हि' कं. पुस्तके नास्ति /