________________ 242 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली संख्यापरिमाणपृथक्त्वसंयोगविभागाः उभयगुणाः मूर्तामूर्तगुणाः / संयोगविभागद्वित्वद्विपृथक्त्वादयोऽनेकाश्रिताः, एका संयोगव्यक्तिरेका च विभागव्यक्तिरुभयोर्द्रव्ययोर्वर्तत इत्यनेकाश्रितत्वम् / एवं द्वित्वद्विपृथक्त्वव्यक्त्योरपि / आदिशब्दगृहीतास्तु 'त्रित्वत्रिपृथक्त्वादिव्यक्तयो यथासम्भवं बहुष्वाश्रिताः। अनेकशब्दश्च ‘एको न भवति' इति व्युत्पत्त्या द्वयोर्बहुष्वपि साधारणः / शेषास्त्वेककवृत्तयः शेषाः' रूपादिव्यक्तयः, एकस्यामेव व्यक्तौ वर्तन्ते, न पुनरेका रूपव्यक्तिः संयोगवदुभयत्र व्यासज्य वर्तत इत्यर्थः / विशेषगुणान् निरूपयति-रूपरसगन्धेत्यादि / विशेषो व्यवच्छेदः, तस्मै 'प्रभवन्ति ये गुणास्ते वैशेषिका गुणा रूपादयः। ते हि स्वाश्रयमितरस्माद्वयवच्छिन्दन्ति न संख्यादयः, तेषां स्वतो विशेषाभावात् / यस्तु तेषां विशेषः स आश्रयविशेषकृत एवेति बोद्धव्यम् / [टि०] न तावदर्थमात्रम् इति :-कुड्यान्तरिते'ऽर्थे सत्यपि तद्बुद्धेरननुमानात् / ज्ञानसम्बन्ध इति :-ज्ञानविषयीकृतो ार्थो 'ज्ञात इत्युच्यते / पाकैः इति :-'अग्निसंयोगैरित्यर्थः / [पं०] ग्राह्यम् / न तु यथासयम्; मूर्त्यभावेन क्रियायानिवृत्तिसिद्धये व्युत्पादनात् / मूर्त्यभावेनेत्यादि व्यापक हि निवर्तमानं व्याप्यमादाय निवर्तते / तेष्विति रूपादिषु / आश्रयक्रिययेति आश्रयो द्रव्यं तस्य या क्रिया चलनादिः, तया। विश्वस्य गमनप्रसङ्गादिति निखिलविश्वव्यापित्वात्तस्याः / स्वतो विशेषाभावादिति - सङ्ख्यादयोऽमुकत्रवेति न / आश्रयविशेषकृत एवेति एको घटः, एक: पट इत्येवम् / [कु०] तस्मै प्रभवतीति (कं. 96.2) सन्तापादिगणे सक्तुमांसादनेभ्यश्चेति चशब्दस्यानुक्तसमुच्चयार्थत्वाद्विशेषशब्दो द्रष्टव्यः / "विनयादि पाठा क्याथिकणेत्राश्रयचतुर्थीसमासस्य मृगत्वादिति भावः / ते हीति (कं. 96.2) स्वाश्रयव्यवच्छेदौपयिकतया द्रष्टव्यः / न सड़येति (कं. 96.3) स्वाश्रयस्य जातिभेदेन व्यवच्छेदो विवक्षित इत्यभिप्रेतत्वादित्यर्थः / 1 त्रित्वपृथक्त्वादि-जे.१। 2 भवन्ति - जे. 1, जे. 3 / 3 ऽर्थेऽपि तद्बुद्धेरनुमानात् - अ, ब; ऽर्थे सत्यपि तबुद्धेरनुमानात्-ड; 4 ज्ञानत-अ, ब; 5 पाकेनेव- मु. पाकैः -जे. 1, जे. 3, 6 असंयोगै-अ, ब, क; 7 अवार्थदृष्ट्या पाठश्चिन्तनीयः /