________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 241 प्रशस्तपादभाष्यम् [100-101] रूपरसगन्धस्पर्शपरत्वा'परत्वगुरुत्वद्रवत्वस्नेहवेगा मूर्तगुणाः / बद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा अमूर्त्तगुणाः / सङ्खयापरिमाणपृथक्त्वसंयोगविभागा उभयगुणाः / संयोगविभागद्वित्वद्विपथक्त्वादयोऽनेकाश्रिताः। शेषास्त्वेककवृत्तयः / रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा वैशेषिकगुणाः / न्यायकन्दली [100] सम्प्रति परस्परमेव तेषां साधयं वैधय॑ञ्च प्रतिपादयन्नाह-रूपेत्यादि / एते मन्नामेव गुणा नामुर्तानाम् / तथा हि रूपस्पर्शपरत्वापरत्ववेगाः पृथिव्यादिषु त्रिषु, वायौ रूपवर्जम्, रूपस्पर्शवज मनसि, रसगुरुत्वे पृथिव्युदकयोः, द्रवत्वं पृथिव्युदकतेजस्सु, स्नेहोऽम्भसि, गन्धः पृथिव्याम् / ____ अमूर्तगुणान् कथयति-'बुद्धिसुखदुःखेत्यादि / बुद्धयादयो भावनान्ता आत्मगुणाः / आकाशगुणः शब्दः। [टि०] बाह्यार्थप्रकाशकत्वाद् इति :-साक्षादिति 'ज्ञेयं पारम्पर्येण मनसोऽपि कारणत्वात् / [पं०] [100.] एक रूपमणुः शब्द इत्यादि व्यवहार उपचारादिति एकत्वं हि सङ्ख्या / सा च गुणस्तत्कथं रूपे गुणे स्यात् ? निर्गुणत्वात् गुणानाम् / अण्विति च परिमाणम् / तच्च गुणस्तत्कथं शब्दे गुणे स्यात् ? निर्गुणत्वात्गुणानाम् / तहि एकमिति अण्विति व्यवहारः कुतः ? उपचारादिति ब्रूमः / समानासमान जातीयसाधयेणोपचार इति वाक्यार्थः / क्रियाया इति 'चलनादेः / मूर्तत्वक्रियात्वयोर्व्याप्यव्यापकभावः सिद्ध इति मूर्तत्वं व्यापक क्रियावत्त्वं च व्याप्यमिति [कु०] [100] एते मूर्तानामेवेति (कं. 95.6) साधारणतया वैधर्म्यमित्यर्थः / भावनान्ता इति (कं. 95.11) भावना संस्कारविशेषा। ननु रूपत्वादिजात्याक्रान्तामन्येषामनेकद्रव्यवत्तित्वात्कथमेतद्वधर्म्यमित्यत आह एकेति (कं. 95.16) / 'आदिशब्दादिति (कं. 95.18) द्वित्वं द्विपृथक्त्वं चादिर्येषामिति बहुव्रीहिं कृत्वा पश्चात्संयोगविभागशब्दाभ्यां द्वन्द्वस्य करणादस्यार्थस्य सिद्धिः / 3 ज्ञेय - ड; 4 जातीयव्यवच्छेदसाध०-ब. / 1 परत्वद्रवत्व -दे। 2 बुद्धिसुखेत्यादि - कं. 1, कं. 2 / 5 चलनादिः-ब.। 6 आदिशब्दगृहीता-क /