________________ 240 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली द्रव्याश्रितत्वं द्रव्योपसर्जनत्वम् / एतच्च धर्ममात्रकथनं न तु 'वैधाभिधानं द्रव्यकादिष्वपि सम्भवात् / / एवं निर्गुणत्वं गुणरहितत्वं गुणानां स्वरूपं तेषां स्वात्मनि गुणान्तरानारम्भकत्वात्, तदनारम्भकत्वञ्च रूपादिषु रूपाद्यन्तरानुपलब्धेरनवस्थानाच्च / एवं सत्येकं रूपमणुः शब्द इत्यादिव्यवहार उपचारात् / सङ्घयादिकं रूपाद्याश्रयं न भवति गुणत्वाद् रूपादिवत्। स्वरूपान्तरं कथयति-निष्क्रियत्वमिति / द्रव्ये गच्छति रूपादिकमपि गच्छतीति चेत् ? न, वेगवद्वायुसंयोगेन व्योमादिषु क्रियाया अभावाच्छाखादिषु च भावाद् अन्वयव्यतिरेकाभ्यां मूर्तत्वक्रियावत्त्वयोाप्य'व्यापकभावसिद्धौ मूर्त्यभावेन रूपादिषु 'क्रियाया निवृत्तिसिद्धः / 'कथं तहि तेषु गमनप्रतीतिः ? आश्रयक्रियया, यथैव सत्तायां नहि सत्ता स्वाश्रयेण सह गच्छति, एकस्य गमने विश्वस्य गमनप्रसङ्गादिति / [रि०] यस्तु तेषाम् इति:-यथा एकमाकाशमित्यादौ / न तस्य 'जात्यन्तरेति:-यद्यपि परमेणाणत्वेन महद्भच इतरेभ्यश्चतुविधा अपि परमाणवो व्यवच्छिद्यन्ते तथापि शुक्ल भास्वररूपेण तेजोवदितरेभ्यो द्रव्येभ्यो 'न व्यवच्छिद्यन्ते इति न विशेषगुणत्वम् / [कु०] (कं. 94.11) / कृतसमयस्यानुवृत्तिप्रत्ययसद्भावादित्यर्थः / शानुशारेण [सानुसारेणा] रूपादिगुणशब्दयोरन्यतरोपादानेपीष्टसिद्धे किमर्थमुभयोरुपादानमित्यत आह रूपादीनामिति (कं. 94.14) / द्रव्यकर्मादिष्विति (कं. 94.16) आश्रितत्वं चान्यत्र नित्य'द्रव्येभ्य इत्युक्तत्वाद्व्याश्रितत्वमस्ति / नित्यद्रव्यादीनां विशेषान्तरांणां द्रव्याश्रितत्वमित्यपि व्याख्याने द्रव्यकर्मणोविशेषाणां च सम्भवादिति भावादिभावः (भावः) / .. एवं निर्गुणत्वमिति (कं. 94.17) साधर्म्यमात्रमित्येतदेवमित्येतेनातिदिश्यते। गुणादीनां पञ्चानामित्यनेन कर्मादीनामपि निर्गुणस्योक्तत्वात् / गुणेषु गुणा भवन्तः कार्याः, नित्या वा? नाद्य इत्याह "आत्मनि गुणानारम्भकत्वादिति (कं. 94.17) तत्रैव द्रव्यत्वेन गुणत्वव्याघात इत्ययः / प्रमाणविरहश्चेत्याह तदनारम्भकवं चेति (कं. 94.18) / नित्यास्तु सामान्यवन्तः कार्याश्रया न सन्त्येव नित्याश्रयास्तु परिशिष्यन्ते तत्राह अनवस्थानादिति (कं. 94.18) / नन्वस्तु सजातीयानामनवस्थापातात्प्रतीत्यभावाच्चाभावः, विजातीयेष्वनवस्थाया अभावात् प्रतीतौ च सत्यामेकं रूपमित्यादिव्यवहारस्य मुख्यत्वे को विरोध इत्यत आह सङ्ग्यादिकमिति (कं. 94.19) / साधान्तरमित्यर्थः पूर्वोक्तादेव हेतोः / द्रव्ये गच्छतीति (कं. 94.21) गतिमद्रव्याश्रया रूपादयस्तावन्न ति[ष्ठ]न्ति पूर्वदेशेऽनुपलम्भात् / अतो गच्छन्तीति वक्तव्यं तृतीयप्रकाराभावादित्यर्थः / कथं तौति (कं. 94.23) गतिमत्स्वाश्रयसंयोगिदेशभेदेन सहोपलभ्यमानत्वमित्यर्थः / "स्वाश्रयक्रिययेति (कं. 95.1) यथा घट सन्नेह वा सन्निति सत्ताया स्वाश्रयसंयोगिदेशभेदेन सहोपलम्भ इत्यर्थः। दृष्टान्तस्य साध्यविकलत्वमाशय परिहरति एकस्येति (कं. 95.2) / द्रव्यगुणकर्मणां सत्ताश्रयतया सामान्यादित्रयस्य न तदेकार्येवत्तितया तद्गमने गतिरवश्य भाविनीति शेषः / 1 -वैधर्मम् -जे. 3 / 2 --व्यापकत्व -जे. 3 / 3 क्रियानिवृत्ति - कं. 1, कं. 2 / 4 कथं तेषु - जे. 3 / 5 ने तस्य-अ, ब, मु; 6 ज्ञास्यन्तरेति-अ; . भारस्त्रकोणात जोत्र...-अ, ब, 8 'न' अबकपुस्तकेषु नास्ति / 9 द्रव्येणन्युक्त वाद्रव्याश्रितत्वं-ह. प्र। 10 स्वात्मनि गुणान्तरानारम्भकत्वाद्-ह. प्र / 11 आश्रयक्रियया-ह. प्र /