________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 237 प्रशस्तपादभाष्यम् अस्पर्शवत्त्वाद् द्रव्यानारम्भकत्वम् / क्रियावत्वान्मतत्वम् / साधारणविग्रहवत्त्वप्रसङ्गा'दज्ञत्वम् / 'करणभावात्परार्थम् / गुणवत्त्वाद् द्रव्यम् / प्रयत्नादृष्टपरिग्रहवशादाशुसञ्चारि चेति / . 'इति प्रशस्तपादभाष्ये द्रव्यपदार्थः // न्यायकन्दली अपसर्पणोपसर्पणवचनात् संयोगविभागाविति। "अपसर्पणमुपसर्पणमशीतपीत संयोगाः कायान्तरसंयोगाश्चादृष्टकारितानि" (वै. सू. 5-2-19) इति सूत्रेण मनसः पूर्वशरीरादपसर्पणं शरीरान्तरे चोपसर्पणञ्चादृष्टकारितमित्युक्तम्, तस्मादस्य संयोगविभागौ सिद्धौ / मूर्तत्वात्परत्वापरत्वे संस्कारश्च / विभवाभावात्तावन मूर्तत्वं सिद्धं तस्माद् घटादिवत् परत्वापरत्ववेगाः सिद्धाः। अस्पर्शवत्त्वाद् द्रव्यानारम्भकत्वम् / अस्पर्शवत्त्वं मनसः शरीरान्यत्वे सति सर्वविषयज्ञानोत्पादकत्वादात्मवत् सिद्धम्, 'तस्माच्चात्मवदेव सजातीयद्रव्यानारम्भकत्वम् / क्रियावत्त्वान्मूतत्वमिति / अणुत्वप्रतिपादनान्मूतत्वे सिद्धेऽपि विस्पष्टार्थमेतदुक्तम् / साधारणविग्रहवत्त्वप्रसङ्गादज्ञत्वम् / यदि ज्ञातृ मनो [टि०] समानमेतद् इति:-यद्यप्यात्ममनसोविभुत्वात् सन्द्रियैः संयोगो युगपदस्ति तथापि एक एवासी आत्ममनःसंयोग इत्येकमेव ज्ञानमुत्पद्यते न तु बहूनीति अविभुत्वसमाधानं विभुत्वेऽपि समानम् / स्वसिद्धान्ताभिप्रायेण समाधत्ते विभुत्वादात्ममनसोः इत्यादि। [कु०] परिहरति [अ]स्पर्शवत्त्वं मनस इति (कं. 93.14) / न त्वस्पर्शत्वया अमूर्तत्त्वमनुमीयतां ततश्च परत्वापरत्ववेगानुमानमुच्छिद्यतेति शङ्कानिराकरणाय भाष्यं पठति / अणुत्वप्रतिपादनादिति (कं. 93.18) विभवाभावस्य च परममहत्त्वेन विरोधा च (त) कार्यस्य मध्यमपरिमाणा[ण] योगादणुत्वसाधकस्यानकलतर्कवत्तयाऽस्पर्शवत्त्वममर्तत्वे न प्रयोजकमिति भावः / "मनसश्चैतन्यमिति (कं. 93.21) तस्यैवाचैतन्यसाधनस्य करणस्यानुकूलतर्कतयेति शेषः / अज्ञत्वे सिद्ध इति (कं. 93.22) सामान्येन परार्थत्वसाधकेऽज्ञत्वे सिद्धेऽपि कथं वा निराकरणायेति शेषः / "इच्छापूर्वेति (कं. 93.24) गुरुत्वादिवत्प्रयत्नादृष्टयोरपि क्रियाकारणत्वमनमेयमित्यर्थः / 1 मूर्तम् -जे। 2 दज्ञम् - जे। 3 स्वयंकरणभावात् - दे। 4 इति द्रव्यपदार्थः समाप्तः-जे। 5 मशितजीनसंयोगाः कार्यान्तरसंयोगाश्चेति सूत्रपाठे- कर्मान्तर इति पाठान्तरम् टिप्पण्याम 4 पा. पु.। 6 °भावान्मूर्तत्वं- कं. 1, कं. 2 / 7 तस्माद-कं. 1 / 8 दज्ञम् -जे. 1, जे. 2, जे. 3 / 9 त्वसिद्धान्त - अ, ब; 10 मनश्चैतन्ये -कं। 11 इच्छाद्वेषपूर्वक-कं /