________________ 238 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली भवेच्छरीरमिदं साधारणमुपभोगायतनं स्यात, न चैवम्, एकाभिप्रायानरोधेन तस्य सर्वदा प्रवृत्तिनिवृत्तिदर्शनात्, तस्मादशं मनः। चैतन्ये निषिद्धेऽपि प्रक्रमात् पुनरेतदुक्तम् / अज्ञत्वे सिद्धे सत्याह-करणभावात् परार्थमिति / परार्थं 'परस्योपभोगसाधनमित्यर्थः / गुणवत्त्वाद् द्रव्यं पृथिव्यादिवत् / प्रयत्नादृष्टपरिग्रहवशादाशुसञ्चारि चेति 'द्रष्टव्यम् / इच्छाद्वेषपूर्वकेण जीवनपूर्वकेण च प्रयत्नेन परिगृहीतं स्थानात् स्थानान्तरमाशु सञ्चरति, तथा अदृष्टेन परिगृहीतं मरणाच्छरीरान्तरमाशु सञ्चरतीति द्रष्टव्यम् / इतिशब्दः परिसमाप्तौ। विशुद्धविविधन्यायमौक्तिकप्रकराकरः। सेव्यतां द्रव्यजलधिः स्फुटसिद्धान्तविद्रुमः // . . इति भट्टश्रीश्रीधरकृतौ 'पदार्थप्रवेशकन्यायकन्दलीटीकायां द्रव्यपदार्थः समाप्तः // [टि०] नन्वात्मप्रकरण एव मनसश्चतन्यं निषिद्धं किं पुननिषिध्यत इत्याह मनसश्चतन्ये इति / इच्छाद्वेषपूर्वकेण इतिः-जाग्रदवस्थायामिच्छाद्वेषपूर्वक: स्वप्नावस्थायां तु प्राणधारणपूर्वकः / "विद्यद्धविविधेत्यादि न्यायाः प्रमाणानि / / / मनः / / 'इति श्रीमलधारिशिष्यपण्डितनरचन्द्र कृतौ कन्दलीटिप्पणके द्रव्यपदार्थः समाप्तः / / शुभं भवतु / / पिं०] इति मलधारिश्रीश्रीतिलकसूरिशिष्यश्रीराजशेखररिविरचितायां श्रीन्यायकन्दलीपंजिकायां द्रव्यपदार्थः समाप्तः / "[शुभं भवतु कविहृदयानाम् / ] [कु०] द्रव्याणि प्रतिपादितानि मुख्यानि सङ्ख्यावतां संतोषाय गुणान्वितानि मुनिवाक्ययोगमपेक्षणात् व[राज्ञब्रहावसुन्धराधिपतिना धात्रीधरेन्द्रात्मजवैक्रमोजविकासनालभरणेन्दीवरस्य संप्रीतये / / . इति श्रीमन्मण्डलेश्वरेण शस्त्रशास्त्राविदां पत्या शिडिलवोंमिदेवेनविरचिते न्यायकन्दलीव्याख्याने न्यायकुसूमोद्गमोदये द्रव्यपदार्थः / / 1 परार्थ:- कं. 1, कं. 2 पुस्तकयो स्ति। 2 'द्रष्टव्यम् - जे. 1, जे. 2, जे. 3 पुस्तकेषु नास्ति। 3 पदार्थप्रवेशन्यायकन्दली-कं. 1, कं. 2 / 4 श्चैतान्य-अ, ब; 5 विशुद्धिविविधरित्यादि-अ, ब; 6 पं. नरचन्द्रकृती द्रव्यपदार्थ:-अ, ब, क / 7[ ] एतच्चिह्नान्तर्गतो पाठो 'ब' पुस्तके नास्ति /