________________ 234 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली प्रतिशरीरमेकं मनः (वै. सू. 3-2-3) इति / तेन प्रतिशरीरमेकत्वं सिद्धमिति / मनोबहुत्वे ह्यात्ममनःसंयोगानां बहुत्वाद्युगपज्ज्ञानानि प्रयत्नाश्च भवेयुः, दृश्यते च क्रमो ज्ञानानामेको पलम्भव्यासक्तेन विषयान्तरानुपलम्भाद् निवृत्तव्यासङ्गेन चोपलम्भादित्युक्तम् / एवं प्रयत्नानामपि क्रमोत्पाद एव, एकत्र प्रयतमानस्यान्यत्र व्यापाराभावात्, समाप्तक्रियस्य च भावात्, तस्मादेकं मनः / तस्यैकत्वे खल्वेक एवैकदा संयोग इत्येकमेव ज्ञानमे कश्च प्रयत्न इत्युपपद्यते / यस्तु क्वचिद्युगपदभिमानस्तदलातचक्रवदाशुभावात् न तु तात्त्विकं योगपद्यमेकत्र दृष्टेन कार्यक्रमेणान्यत्रापि 'करणस्य तस्यैव सामर्थ्यानुमानात् / नन्वेवं तहि द्वाविमावौं पुष्पितास्तरव इत्यनेकार्थप्रतिभासः कुतः ? कुतश्च स्वशरीरस्य सह प्रेरणधारणे, न, अर्थसमूहालम्बनस्यैकज्ञानस्याप्रतिषेधाद् बुद्धिभेद एव न तु तथा प्रतिभासः, 'सर्वासामेव तासामेकैकार्थनियतत्वात् / एवं शरीरस्य प्रेरणधारणे च / [टि०] साधनविकल्पे दृष्टान्त इति दूषणम् / अथ प्रत्यक्षबाधितस्य पक्षत्वाभावात् पक्षदोषेणा सिद्धतां दर्शयन्नाह 'पाण्डुवासोऽयमित्यादि / अयं ग्रन्थकृच्छिष्यः / 'यत्वनयोः इति :-अनयो ज्ञातृज्ञानयोः। प्रथमं तावत्पाण्डुदासोऽयमिति ज्ञानं 'चाक्षुषं ततो ज्ञानान्तरेणात्मसमवेतस्य पाण्डुदासज्ञानस्य ज्ञानं तत आत्मज्ञानं ततो ज्ञातरि ज्ञाने च जाते' सति ताभ्यां विशिष्टोऽर्थोऽपि मनसा गह्यते इति सिद्धान्तः / यस्तु क्वचिद् इतिः द्विस्त्रिश्छिन्नानां गोधापुच्छादिनां. "युगपत्प्रयत्नात् कर्म दृश्यते तदपि चक्षस्फुरणादिवददष्टोपग्रहादिति / बुद्धिभेद एव इति / भेदे एव सति तथा प्रतिभासो न स्यात् / एकत्वानुमानं तु "विवादास्पदमेकम् , एकदा एकज्ञानासमवाय कारणाधारत्वादात्मवदिति / विवादास्पदमित्येकदेहावच्छिन्नमित्यर्थः / एकदेति क्रमेणानेकज्ञानासमवायकारणाधारत्वेनासिद्धिवारणार्थम् / विपक्ष युगपज्ज्ञानोत्पत्तिर्बाधिका।। [पं०] इति - अर्थदेशे / तस्मादिति - यतः कारणात् / सुखादीनां बहिर्देशे प्रत्ययो नास्ति / शब्दज्ञानस्योत्पादोऽप्यस्ति, ततः कारणादित्यर्थः / पूर्वशरीरादिति - मृतशरीरात् / पूर्वशरीरादपसर्पणं-शरीरान्तरेऽपसर्पणमित्येतत्सप्रपंचं वक्ष्यते कर्मपदार्थप्रान्ते / शरीरान्यत्वे सति सर्वविषयज्ञानोत्पादकत्वादिति किल सर्वविषयज्ञानोत्पादक शरीरमप्यस्ति / तत्पूनः [कु०] (कं. 92.6) एकत्र ज्ञानस्य वा प्रयत्नस्य वोत्पत्तौ विषयान्तरे तदनुत्पतिः विषयात्मतत्सन्निकर्षव्यतिरिक्तसहकारिविरहप्रयुक्ता तेषु सक्तेषु च कार्यानुत्पत्तित्वात् सम्प्रतिपन्नवदिति प्रयोगः / अत्र तर्कमाह मनो-बडत्वे इति (कं. 96.7) / "तथैव सामर्थ्यानुमानादिति (कं. 92.13) विप्रतिपन्नानि ज्ञानानि युगपन्नोत्पद्यन्ते ज्ञानत्वाद् व्यासक्तज्ञानवदिति प्रयोगः / ननु द्वाविमावर्थाविति समूहालम्बनमेकमेव ज्ञानं न तु ज्ञानयोगपद्यमिति कुतो विनिगमनेत्यत आह 1 अन्योपलम्भ-जे. 2 / 2 एकः प्रयत्नः-कं. 1; कं. 2 / 3 कारणस्य तथैव -जे.१; जे. 3; तथैव करणस्य जे. 2 / 4 सर्वासामेकैकार्थ-कं. 1; कं. 2 / 5 सिद्धितां-अ, ब, क; 6 घटोऽयम्-म. जे. 1, जे. 3 / 7 यत्र त्वनयो:- मु.जे.१,जे.३। 8 चक्षुषं-अ%; 9 ज्ञाने सति - ड; 10 ऽर्थोऽप्यमनसा-अ, ब; 11 युतवत् -अ, ब; 12 विवादास्पदमेकदा-अ, ब; 13 ज्ञानसमवाय-क; ज्ञानासमवायाधारत्वा-ड; 14 तस्यैव-कं /