________________ टिप्पणपञ्जिकाकुसुमोगमादिटोकात्रयोपेतम् प्रशस्तपादभाष्यम् [98] तस्य गुणाः संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्व'संस्काराः / प्रयत्नज्ञानायौगपद्यवचनात्प्रतिशरीरमेकत्वं सिद्धम् / पृथक्त्वमप्यत एव / तवभाववचनादणुपरिमाणम् / अपसर्पणोपसर्पणवचनात्संयोगविभागौ। मूर्तत्वात्परत्वापरत्वे संस्कारश्च / न्यायकन्दली तदप्यसत्, घटोऽयमित्येतस्मिन् प्रतीयमाने ज्ञातृज्ञानयोरप्रतिभासनात् / यत्र स्वनयोः प्रतिभासो घटमहं जानामोति, तत्रोत्पन्ने ज्ञाने ज्ञातज्ञानविशिष्टस्यार्थस्य मानसप्रत्यक्षता। न तु ज्ञातृज्ञानयोश्चाक्षुषज्ञाने प्रतिभासः, तयोरपि चाक्षुषत्वप्रसङ्गात् / [98] तदेवं सिद्ध मनसि तस्य गुणान् प्रतिपादयति-तस्य गुणा इत्यादिना। सङ्ख्याधष्टगुणयोगोऽपि मनसो वैधर्म्यम् / सङ्खघासद्भावं कथयति-प्रयत्नत्याविना / प्रतिशरीरमेकं मन आहोस्विदनेकमिति संशये सति सूत्रकृतोक्तम्-"प्रयत्नायोगपद्याज्जानायोग'पद्याच्च" [टि०] [98] प्रभाकरमतमाशङ्कने अपरे पुनरेवमाहुः, इत्यादि। ज्ञानेन सह योऽसौ संसर्गो ग्राह्यग्राहकलक्षण: सम्बन्धस्तस्याग्ज्ञानम् / अनुमानं तु ज्ञानज्ञातृशेयप्रतिभासनात, त्रिपुटी'ज्ञानं "विषयस्वस्वरूपस्वाश्रयप्रकाशकं, प्रकाशस्वभावत्वात् प्रदीपवदिति / तत्र किमिदं प्रकाशस्वभावत्वम् ? यदि भावस्वरूपत्वं तदाऽसिद्धिः, अथ ज्ञानरवं तदा [पं०] सदुच्यते इति श्रीधरेण। विभुत्वादिति -कोऽर्थः? यदि मनसो विभुत्वमङ्गीक्रियते / आत्ममनसोः परस्परसंयोगाभावे इति-न हि महदम्ययोरेकत्वसंयोगो भवति असमवायिकारणाभावादिति आत्ममनःसंयोग एव हि ज्ञानसुखादीनामसमवायिकारणम् / आत्मार्थसंयोगस्य ह्यसमवायिकारणत्वेऽर्थवेशे ज्ञानोत्पत्तिः स्यादिति-अयमत्र वाक्यार्थः- यदि आत्मार्थसंयोग एव ज्ञानोत्पत्ती असमवायिकारणमिष्यते, तदाऽर्थदेशे ज्ञानोत्पत्तिः स्यात्, न पुमरन्तर्मुखतया / प्रदेशवृत्तीनां गुणानामिति संयोगविभागशब्दात्मविशेषगुणानां प्रदेशवृत्तित्वम् / बुद्धयादयोऽन्तर्बहिश्चोपलम्भानुपलम्भाभ्यामव्यापका- इति वक्ष्यमाणत्वात् ज्ञानादीनां प्रदेशवृत्तित्वं ज्ञातव्यम् / [98] आकाशात्मकेन श्रोत्रेणात्मनः संयोगाभावादिति न हि महतोराकाशात्मनोः संयोगो घटते / बहिर्वेशे [कु०] बहुव्रीहिगर्भो बहुव्रीहिः / समासान्तविधेरनित्यत्वान्नद्यतश्चेति प्रत्ययो न कृतः / घटोऽयमित्यत्र ज्ञातृज्ञानयोरपि प्रभासमानत्वे घटवत्ताभ्यामपि ज्ञानमवच्छिद्येति भावः। ज्ञातृज्ञानविशिष्टस्येति (कं. 92.1) अनुव्यवसायमानज्ञानविशेषणतया अनुव्यवसायार्थः प्रकाश इत्यर्थः / बयोरपीति (क. 92.2) विषयस्य हि चाभुषस्वं चक्षुर्जन्यज्ञानप्रकाशमानत्वं नान्यदित्यर्थः / [98] सङ्खघासद्भावमिति (कं. 92.4) सङ्खयाविशेषसद्भावमित्यर्थः / सङ्खघासामान्यस्य द्रव्यत्वादेव सिौ स च विशेषः कीदृश इत्याशङ्कय विमर्शपूर्वकं तत्साधकं सूत्रं पठति प्रतिशरीरमिति (कं. 92.6) / तेनेति 1 संस्काराश्चेति-दे। 4 त्रिपुटिविषय-अ, ब, क असिद्धिः -अ, ब; 30 2 मनोवैधम्यंम् -जे.३। 3 चकम्-सू. पा; चैकं. मन इति -जे. 1; जे. 3 / 5 विषयस्वरूपत्वाश्रयप्रकाशसुभावत्वात् -अ, विषयस्वस्वभावत्वात्-ब; 6