________________ 232 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली "अप्रत्यक्षोपलम्भस्य नार्थदष्टि: प्रसिद्धयति" इति / नहि ज्ञानस्य प्रत्यक्षताऽर्थस्य दर्शनम्, किन्तु विज्ञानस्योत्पत्तिः, तत्रासंविदितेऽपि ज्ञाने तदुत्पत्तिमात्रेणैवार्थस्य संवेदनं सिद्धयति / कथमन्यस्योत्पत्तिरन्यस्य संवेदनमिति चेत् ? किं कुर्मो वस्तुस्वभावत्वात् / न चैवं सति सर्वस्य संवेदनम् ? तस्य स्वकारणसामग्रीनियमात् प्रतिनियतार्थसंवित्तिस्वभावस्य प्रतिनियतप्रतिपत्तसंवेद्यस्यैव चोत्पादात् / __ अपरे पुनरेवमाहुः-ज्ञानसंसर्गाद्विषये प्रकाशमाने 'प्रकाशस्वभावत्वात् प्रदीपवविज्ञानं प्रकाशते, प्रकाशाश्रयत्वात् प्रदीपतिववात्माऽपि प्रकाशत इति त्रिपुटीप्रत्यक्षतेति। [टि०] इन्द्रियेऽप्रकाश्यमानेऽपि प्रकाशन्ते / इन्द्रियाणामतीन्द्रियत्वादित्यनेकान्तः / ज्ञानमेव नार्थप्रकाशः किन्तु ज्ञानजन्योऽर्थप्रतिभासो माम कार्यान्तरमिति नासिबतादोष इत्याशङ्कय ततो दूषयति 'अर्थज्ञानजन्योऽर्थेति / भर्थस्य हि ज्ञानमेव प्रकाशकं तत्रैवार्थप्रतिभासनात् / प्रदीपादिना तु ज्ञानमेव जयते नत्वर्थः प्रकाश्यते इति / '[अप्रत्यक्षेति 'अप्रत्यक्षेणाप्रतिभासमानेन जडेनोपलम्भन कथमों 'दश्यते / अप्रत्यक्षोपलम्भस्येति कर्मधारयः / [पं०] भासमानेन जडेनोपसभेन कथमर्थो दृश्यते / अयं कर्मधारयः / अप्रत्यक्षश्चासौ उपलम्भश्च / अप्रत्यक्षोपलम्भस्यापरोक्षशानस्येत्यर्थः / तदुत्पत्तिमात्रेणवेति ज्ञानोत्पत्तिमात्रेणव। अभ्यस्योत्पत्तिरिति ज्ञानस्योत्पत्तिः। अन्यस्य संवेदनमितिअर्थस्य संवेदनम् / अपरे इति प्रामाकराः। ज्ञानसंसर्गारिति-ज्ञानेन सह ग्रामग्राहकभावलक्षणसम्बन्धात् / त्रिपुटोप्रत्यक्षतेतिज्ञेयज्ञानज्ञातरूपा / 'पाण्डदास इति ग्रन्थकृच्छिव्यनाम / ज्ञातृज्ञानयोरप्रतिभासनादिति कोऽर्थः ? केवलं घटाख्यं ज्ञेयमेव प्रकाशते / अनयोरिति ज्ञातृज्ञानयोः / ज्ञातृज्ञानविशिष्टार्थस्येति-घटाख्यस्य / एकोपलम्भभ्यासक्तेनेति-मनसा / अनेकार्षप्रतिभास इति द्वित्वाद्ययंप्रतिभासः / प्रत्यर्थबुद्धिभेदेऽभ्युपगम्यमाने पुष्पितास्तरव इति बहुत्वसंख्याविशिष्ट: प्रत्ययो न स्यात् / कुत इत्याह-बुद्धिमेव एव तु न तथा प्रतिभास इत्यादि / तासामिति-बुद्धीनाम् / 'तत्कार्याविच्छाप्रयत्नाविति बुद्धिपूर्वको इच्छाप्रयत्नावप्यनेकविषयी इत्यर्थः / विभवाविति-ग्यापकत्वात् / तवभावादिति म्यापकत्वा भावात / नित्यद्रग्यगतस्य विभवाभावस्याणपरिमाणत्वाम्यभिचाराविति-अन्येष नित्यद्रव्येषु विभव एवास्ति, भत्र मनसि नित्यद्रव्यत्वं विभवाभावश्चात एव परमाणुपरिमाणत्वं सिद्धमिति भावना / अथ कथमित्यादि पर: प्रश्नः / श्रीधरः प्राह - न भवन्ति तावविति / व्योमशिवमुद्दिश्याह अनेनात्ममनःसंयोगस्यकस्येत्यादि - अत्रानेनेति मनसा / समानमेतद्विभुत्वेऽपि मनस इति -भात्मना संयोग एक एव, मतो नाणुस्वसिद्धो कारणं वाच्यमिति व्योमशिवेन / [कु०] अर्थदृष्टिस्तद्विषयज्ञानप्रत्यक्षवा [स्वं] वा प्रत्यक्षो [प] जन्यमारं[भो] बा ? नाद्य इत्याह तहि ज्ञानार्थबोभिन्नत्वादिति शेषः / न द्वितीय इत्याह किन्विति (कं. 91.19) तज्जन्यार्थान्तरे प्रमाणाभावादिति शेषः / किं कुर्म इति (कं. 91.21) स्वयं प्रकाशत्वाङ्गीकारे विषयप्रतिपत्तिनियमयोः कारणे पृष्टे स्वभावावलम्बनेनोत्तरं बक्तव्यमित्यर्थः / प्रतिनियतप्रतिपतसंवेद्यस्येति (कं. 91.23) प्रतिनियतं प्रतिपतृक संवेद्यं यस्य विज्ञानस्येति 1 प्रकाशकत्वात् -जे. 3 / 2 अथ च-मु. अथ-जे. 1, जे. 3 / 3 [ ] एतच्चिह्नान्तर्गतः पाठः अ पुस्तके नास्ति / 4 अप्रत्यक्ष प्रतिभास-ब; 5 दृश्यते इति अबकपुस्तकेषु पाठः / 6 प्रतीकमिदं क. पुस्तके नास्ति / 7 तथा तत्कार्या-अ%; तरकारणा-कं। 8 प्रतीपमियतमपतिपतसंवेद्यस्येति-न्या.. आदर्शपुस्तके।