________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 231 न्यायकन्दली [97] अथ मतं न ज्ञानस्य 'करणादिभावः स्वसंवेदनार्थः, किन्तु स्वप्रकाशस्वभावस्य तस्योत्पत्तिरेव स्वसंवेदनमिति / अत्रापि निरूप्यते कि तदर्थस्य प्रकाशः ? स्वस्य वा ? यद्यर्थस्य प्रकाशः, 'तदुत्पत्तेरर्थस्य संवेदनं स्यान्न तु स्वस्येति 'स्वस्यासंवेद्यतादोषः / अथेदं स्वस्य प्रकाशः, तदेव प्रकाश्यं प्रकाशश्चेति क्रियाकरणयोरेकत्वं तदवस्थम् / न च स्वोत्पत्तिरेव स्वात्मनि क्रियेत्यपि निदर्शनमस्ति / यदपि स्वसंवेदनसिद्धौ प्रमाणमुक्तं यद्यदायत्तप्रकाशं तत्तस्मिन् प्रकाशमाने प्रकाशते, यथा प्रदीपायत्तप्रकाशो घटो ज्ञानायत्तप्रकाशाश्च रूपादय इति / तत्रापि यदि ज्ञानमेवार्थप्रकाशोऽभिमतः, तदा तदायत्तप्रकाशा रूपादय इत्यसिद्धमनैकान्तिकञ्चेन्द्रियेण / 'अथ च ज्ञानजन्योऽर्थप्रकाशो न तु 'जानमेवार्थप्रकाशस्तदा दृष्टान्ताभावः, ज्ञानजनकस्य प्रदीपस्यार्थप्रकाशकत्वाभावात् / एतेनैतदपि प्रत्युक्तम्[टि०] [97] अथेद स्वस्य प्रकाश इत्यादि दूषणं स्वपरप्रकाशत्वेऽपि तस्याङ्गीक्रियमाणे समानम् / ननूत्पत्तिरेव तस्य क्रियेति न पूर्वोक्तो दोष इत्याह *न चास्योत्पत्तिः इति / निदर्शनं दृष्टान्तो नास्ति / यनवायत्तेति :-यद् घटादिकं यस्य ज्ञानस्यायत्तप्रकाशं तद् घटादिकम्, तस्मिन् इति ज्ञाने / अत्र प्रकाशशब्दं विकल्प्य दूषयति तत्रादि यदि इत्यादि / ज्ञानायत्तः प्रकाशो ज्ञानं येषामिति हि कृते एक तावत्पदार्थशाम प्रकाशरूपं मन्तव्यम्, यस्य च ज्ञानस्य तत्प्रकाशरूपं ज्ञानमायत्तं तद् द्वितीयं मन्तव्यम्, एवं चासिद्ध ज्ञामवयस्यास्वीकारात् / इन्द्रियायत्तप्रकाशाश्च घटाश्य [पं०] [97] तदिति-ज्ञानम् / अर्थस्येति-घटादेः / तस्यासंवेद्यतादोष इति तस्य ज्ञानस्य संवेद्यतादोषः प्राप्नोतीत्यर्थः / भयेदमिति-अत्रेदं ज्ञानम् / न च स्वोत्पत्तिरेव स्वात्मनि क्रियेत्यपि निदर्शनमस्तीति स्वोत्पत्तिरेव स्वात्मनि क्रियेत्यत्रापि किञ्चिनिदर्शनं नास्तीत्यर्थः / प्रमाणमुक्तमिति बौद्धः। अनेकान्तिकं चेन्द्रियेणेति-इन्द्रियं हि रूपादीप्रकाशयति / न च तेषु प्रकाशमानेषु तत्प्रकाशते / अतीन्द्रियस्वात् / अथ ज्ञानजन्योऽर्थप्रकाशो न तु ज्ञानमेवार्थप्रकाशस्तदा दृष्टान्ताभावः, ज्ञानजनकस्य प्रदीपस्यार्थप्रकाशत्वाभावाविति-अस्य वाक्यस्यायमर्थ:-य एव ज्ञानजन्यो भवति स एवार्थप्रकाशरूपः। प्रदीपश्च ज्ञानजनकस्तस्यार्थप्रकाश [श्य] त्वासंभवः / तस्मात्प्रदीपायत्तप्रकाशो घट (?) इति दृष्टान्तो न घटते / अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयतीति-अचंट सूत्रमेतत् / व्याख्या-अप्रत्यक्षेणाप्रति[5.][97] अत्रापि निरूप्यत इति (कं. 91.10) स्वश्चासौ प्रकाशश्चेति स्वप्रकाश इति वीक्ष्य (?) स(स्व)प्रकाश , इत वेत्याशयेन विकल्प्यत इत्यर्थः / न च स्वोत्पत्तिरेव, सिद्धास्यैव क्रिया[विषयत्वादिति भावः। असिमिति (कं. 91.16) - ज्ञानव्यतिरेकेण तदायत्तप्रकाशाभाव इत्यर्थः। अथ ज्ञानजन्यमिति (कं. 91.11) प्राकटघ मित्यर्थः / दृष्टान्ताभाव इति (कं. 91.17) साधनविकलत्वादिति शेषः / प्रदीपेन ग्राह्यं न जन्यते यतस्तदेतवाहज्ञानजनकस्येति (91.17) / अर्थप्रकाशकत्वाभावात् (कं. 91.18) प्राकटयजमकत्वाभावादित्यर्थः / 1 करणाद्यभावः - कं. 1, कं. 2; जे. 2; / 2 तदुत्पत्ति-जे. 1; जे. 3 / 3 तस्यां - कं. 1; कं. 2; जे. 3 / 4 जानायत्त-जे. 1; जे.३। 5 अथ ज्ञान -जे.१; जे. 3 / 6 ज्ञानमेव तदा-जे. 1; जे. 3 / न च स्वोत्पत्तिरिति मूलपाठः। 7 अथ च ज्ञानजम्यो-कं /