________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 229 न्यायकन्दली रिन्द्रियजा, भपरोक्षप्रतीतित्वाद् रूपादिप्रतीतिवत्, यच्च तदिन्द्रयं तन्मनः, चक्षुरादीनां तत्र व्यापाराभावात् / अभिन्नकारणत्वाज्ज्ञानात्मकाः सुखादयः स्वसंवेद (ना) न करणान्तरेण गृह्यन्ते इति चेन्न, ज्ञानस्वभावत्वे सुखदुःखयोरविशेषप्रसङ्गात् / 'परस्परभेदे च न तयोर्शानात्मकता, बोधाकारस्योभयसाधारणत्वेऽपि सुखदुःखाकारयोः परस्परव्यावृत्तत्वात् / न चानयोविज्ञानाभिन्नहेतुजत्वम्, ज्ञानस्यार्थादुस्पत्तेः, तस्माच्च वासनासहायात् सुखदुःखयोरुत्पादात्, अन्यथोपेक्षाशामाभावप्रसङ्गात् / न च स्वसंवेदनं विज्ञानमित्यपि सिद्धम्, एकस्य कर्मकरणाविभावे दृष्टान्ताभावात्, स्वप्रकाशः प्रदीपोऽस्ति दृष्टान्त इति चेनैवम्, सोऽपि हि पुरुषेण ज्ञायते 'ज्ञाप्यते च चक्षुषा / [रि०] एकस्वभावत्वे 'भेदाभावाद् [सुख दुःखरूपग्राह्यस्यानङ्गीकारात्] भेवायोगाच्च वृक्षत्यशिशपात्वेऽपि भिन्ने सामान्ये स्वीक्रियते न त्वेकस्वभावे इति / अभिन्नहेतुकत्वं चैकदेशापेक्षया वा सामन्यापेक्षया वा? आये घटपुञात् चटपुजोत्पत्ती सर्वेषां रूपरसगन्धादिभिर्व्यभिचारः। द्वितीये तु प्राह न चालयो इति / तस्माग्च इति:-जायमानादति / 'यदि तु बासनामन्तरेण विषयमात्रादेव सुखाद्युत्पत्तिः स्यात्तदा मनेरपि सुखादिज्ञानं स्यात्, 'न तूपेक्षाज्ञानमिति एतद् दर्शयति'भन्यथोपेभा इति / स्वसंवेदनस्वे च सौत्रान्तिका अनमानयन्ति-यत्प्रकाशकं तत्स्वप्रकाशे परामपेक्षं यथा 'प्रदीपः, प्रकाशकं च ज्ञानमिति / "परप्रकाशस्यापि प्रकाशकत्वे घटाक्षेरपि प्रकाशकत्वप्रसङ्गा इति, सत्राह न च "स्वतंवेदनम् एस्यादि / पिं०] न सुखादिपरिज्ञानं विज्ञानाभिन्नहेतुज मिति धर्मकीतिवचनात, बोधाकारत्वेनाभेदः सुखदुःखयोरिति चेदाहबोधाकारस्योभयसाधारणत्वेऽपीत्यादि / परस्परव्यावृतत्वादिति यथा वृक्षवेनाभेदेऽपि धवखदिरयोधंवत्वखदिरत्वाभ्यां भेवस्तथाऽत्रापि / ततश्च भेदे सत्यनयोः कथं ज्ञानात्मतेत्यर्थः तस्माच्चेति-ज्ञानाच्च / अन्यथोपेक्षाज्ञानाभावप्रसङ्गादिति [कु०] ननु ज्ञानत्वं सामान्यं सुखदुःखे तु तद्विशेष्यौ[षौ] भविष्यत इत्यत आह बोधेति (कं. 90.25) / उभयोः सुखदुःखजन्मनि बोधाकारस्य वस्त्वंतरस्य प्रतीतो सत्यामेव [त] द्विलक्षणयोः परमनुकलतया म्यावृत्तस्याः (स्य) प्रत्यक्षसिद्धत्वात्सामान्यविशेषभावोऽपि न सङ्गच्छत इति भावः / तस्मादिति (कं. 90.26) वासना रागद्वेषौ तत्सहायादर्थात् सुखदुःखयोरुत्पत्तिरितरथा हेमन्तेऽपि चन्दनस्पर्श (:) सुखं स्यात् वीतरागस्यापि कामिनीस्पर्शसुखं स्यात् / एतदेवाह-"अन्यथेति-(कं. 90.27) / सुखादीनां विज्ञानाद्भदे सिरे स्वयंप्रकाशत्वेऽपि सुखदु:खायुपलन्धिकरणतया मनः सिद्धयत्येब तथापि प्रसक्तं परमतं निरस्यति न चेति (कं. 90.25) / कर्मकरणाविशब्देन क्रियादि गृह्यते / 1 सुखसंवेदनानि न कारणान्तरेण - कं. 1; (च) न कारणान्तरेण - कं. 2; स्वयंवेदनान्तःकरणेन - जे. 2 / 2 परस्परभेदेन च-जे. 2; परस्परभेदे तु -जे. 3 3 °स्यार्थाकारा - कं. 1; कं. 2 / 4 ज्ञाप्यते चक्षुषाकं. 1; कं. 2 / 5 [ ] एतचिह्नान्तर्गतः पाठः अबक पुस्तकेषु नास्ति / 6 यदि वासना-अ; 7 तत्-3; 8 अन्यापेक्षेति-अ, ब; 9 प्रदीपप्रकाशक -अ, ब, 10 परप्रकाशस्यापि - अ, ब; 11 स्वे संवेदनम् - अ%3B 12 अन्यथेपि आदर्शपुस्तके /