________________ 228 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम न्यायकन्दली रस्येन्द्रियसनिकर्षोऽस्तीति किं प्रमाणम् ? इन्द्रियाधिष्ठानसन्निधिरेव / रूपोपलब्धिकाले गन्धादयोऽपि घ्राणादिभिः सन्निकृष्यन्ते, तदधिष्ठानसन्निहितत्वादुपलभ्यमानगन्धादिवत् / प्रमाणान्तरमप्याह-श्रोत्रायब्यापारे स्मृत्युत्पत्तिदर्शनादिति। स्मृतिस्तावदिन्द्रियजा जानत्वाद् गन्धाविज्ञानवत्, न चास्याः श्रोत्रादीनि करणानि, बधिरादीनां 'श्रोत्रादिग्यापाराभावे तस्या उत्पत्तिदर्शनात् / तस्माद्यवस्याः करणमिन्द्रियं तन्मनः / न केवलं पूर्वस्मात्कारणात् करणान्तरानुमानं वाद्येन्द्रियश्चक्षुरादिभिरगृहीतानां सुखादीनां रूपाचपेक्षया 'ग्राह्यान्तरभावाच्च तवनुमानमित्याह-बाह्येन्द्रियैरिति / सुखादिप्रतीति [fr.] नत्विन्द्रियजमित्यनेकान्तः? सत्यम्, इन्द्रियलक्षणाक्रान्तत्वेन ममसोऽपीन्द्रियजन्येत्युक्तम् / अभिप्रायीकृतं तु 'करणसाध्येति तेन न व्यभिचारः। स्वप्नज्ञानं प्रति तु 'करणान्तरस्यादर्शनात, तस्यापि मनोजन्यत्वेन पक्षाभि मतत्वात् / भस्मदापपरोभज्ञानत्वादिति वा कार्यम् / ईश्वरज्ञानव्यवच्छेदार्थमस्मदादीति / सुखाविः 'प्रतीतिः [इति] विवादाम्यासितेति कर्तव्यम्, तेनेश्वरस्यास्मदादिसुखप्रतीत्यानिन्द्रियजन्यया पुत्रसुखप्रतीत्या च तन्मुखप्रसादाद्यनुमित्या न भागासिद्धिः / अभिन्नकारणत्वाद् इति-योनाभिन्नहेतुकं तज्जातीयं यथा पटाद् घटान्तरम् / विज्ञानेनाभिन्नहेतुकं च सुखादिकमित्यत्र प्रतिकूलतमाह ज्ञानस्वभाववत्त्वे इति:-एफ स्वभावत्वे भेवायोगात् / न तु धववशिशपात्वयो दोऽपि "[यथा वृक्षात्मताया उभयसाधारणत्वात् "[तदेकात्मकत्वं तथा सुखदुःखाकारयोर्भ देऽपि] बोधात्मतायाः साधारणत्वात्]] तदेकस्वभावता भविष्यतीति बौद्धोत्तरमाशङ्कप माह-"बोधाकारस्य इति / "बुद्धेविषयभेदमन्तरेण [40] सग्निकर्षः / इम्रियजा इति मनोजाः / श्रोत्राविकारणभावे इति-श्रोत्राविव्यापाराभवि इति द्वौ पाठी स्तः / तत्र ब्यापाराभावादित्यत्र / तत्र = सुखादिप्रतीतौ। अभिन्नकारणत्वादिति ज्ञानस्य सुखादीनां चात्मैव समवायिकारणम् / / ज्ञानात्मकाः सुखाक्य इति / तदतद्रूपिणो भावास्तदतद्रूपहेतवः / कु.] इन्द्रियाणामतीन्द्रियतया सन्दिग्धविशेषणासिद्धिमाशय परिहरति एकेति (कं. 90.12) / रूपोपलब्धिकाल इति (कं. 90.14) अत्र विभता इति पक्षविशेषाध्याहारान्न कालात्ययापदिष्टत्वमसिद्धा[त्वं] च / "ज्ञानादिति (कं.९०.१४) अलैक्षिकत्वे सतीति विशेषणाध्याहारान्नानमितो व्यभिचारः / सौगतमतेन सुखादिव्यतिरिक्ता यास्तत्प्रतीतेराश्रयस्यासिदिमाशङ्कते-अभिन्नकारणत्वादिति (कं. 90.22) / सुखदुःखयोर्जात्या परस्परमभेदो [न] वा आद्ये प्रत्यक्षविरोध इत्याह नेति (कं. 90.23) / द्वितीये तु भिन्नयोरभिन्नने (मेन) सह तादात्म्यमनुपपन्नमित्याह परस्परेति (कं. 90.14) / 1 श्रोत्राधिकरणाभावे-जे. 3 / 2 ग्राह्यान्त राणां-कं. 1; कं. 2; जे. 1; जे. 2 / 3 साध्येत्युक्तं-अ, ब, क; 4 कारणा-अ, ब, क; 5 मतम् - अ; 6 प्रपीति - अ, ब, क, प्रतीतीति -ड; 7 च मुखप्रसादा- ड; 8 तत्सजातीयं-अ, ब, क 9 स्वभावे - अ; 10 [ ] एतचिह्नान्तर्गतः पाठः ड पुस्तके नास्ति / 11 [[ ]] एतचिह्नान्तर्गतः पाठः भ पुस्तके नास्ति / 12 बोधाधिकारस्य - अ, ब, क; 13 युद्धेवि - अ, ब; 14 ज्ञानत्वाद्-मु. कं।