________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 227 न्यायकन्दली या हि समानगुणकार्या व्यक्तयस्ता स्वपरं सामान्यं दृष्टं यथा घटादिषु, समानगुणकार्याश्च मनोव्यक्तयस्तस्मात्तास्वपरसामान्ययोगः / असिद्ध मनसि तस्य धर्मनिरूपणमन्याय्यमिति मत्वा तस्य सद्भावे प्रमाणमाह-सत्यप्यात्मेन्द्रियार्थसान्निध्ये इति / मात्मनस्तावत् सर्वगतत्वात् सर्वेन्द्रिययुगपत्सम्बन्धोऽस्त्येव, इन्द्रियाणामपि सन्निहितैरथैः सन्निकर्षो भवति, तथाप्येकस्मिन् विषये प्रतीयमाने विषयान्तरे ज्ञानसुखादयो न भवन्ति, तदुपरमाच्च भवन्तीति दृश्यते, तदर्शनादात्मेन्द्रियार्थसन्निकर्षेभ्यः करणान्तरमनुमीयते यस्य सन्निधानाज्ञा'नसुखादीनामुत्पत्तिः, असन्निधानाच्चामुत्पत्तिः / आत्मेन्द्रियार्थसन्निकर्षाः कार्योत्पत्तौ करणान्तरसापेक्षाः, सत्यपि सद्भावे कार्यानुत्पादकत्वात् तन्त्वादिवत्, यच्च तदपेक्षणीयं तन्मनः / एकार्थोपलब्धिकालेऽनुपलभ्यमानस्याप्यर्थान्त [टि०] 'तु कदाचिदपि नाङ्कुरो जन्यते, इत्यङ्करस्य शिलाशकलकार्यत्वाभावात् कार्यानुत्पादक हेतोः शिलाशकले विपक्षे गमनाभावान व्यभिचारः / रूपोपलब्धिकाले इति -'इन्द्रियाणामतीन्द्रियत्वात् तैः सह युगपत्सग्निहितानां "विषयाणां संयोगोऽप्यतीन्द्रियोऽधिष्ठानसंयोग एव तु प्रत्यक्ष इत्यधिष्ठानसंयोगेनेन्द्रिय संयोगोऽनुमितः / अत्र च विशेषाविवक्षया सन्निकर्षमात्र साध्यते तेन वय॑धोभागे सन्निहिताया अगुल्या दीपकलिकया सह चक्षोलक"सन्निहितस्य "चाञ्जनस्य चक्षुरिन्द्रियेण सह संयुक्तसंयोगरूपेऽपि "[सन्निकर्षे न दोषः / अन्यथा तु गन्धादीनां घ्राणादिभिः सह संयुक्तसमवायरूपेण सन्निकृष्टत्वात् ] संयुक्तसंयोग [ संयोग] रूपसन्निकर्षाभ्यां व्यभिचार: स्यात् / मनःसद्भावे प्रमाणान्तरं [दर्शयति] स्मृतिस्तावद इति / "नन्वनमानज्ञानं "स्वप्नज्ञानं च ज्ञानं भवति, [पं०] मनस्त्वयोगः / तदुपरमाच्चेति-एकविषयप्रतीत्युपरमाच्च / तद्दर्शनादिति ज्ञानसुखोत्पत्तिदर्शनात् / तस्वादिवविति यथा केवलास्तन्त्वादयो न कार्योत्पादका: किन्तु तन्तुसंयोगापेक्षाः, एवमत्र मनःसंयोगमपेक्षतेऽऽत्मेन्द्रियसन्निकर्षाः / तन्मन इति असमवायिकारणभूतम् / उपलभ्यमानगन्धादिवदिति यथा गन्धाधुपलब्धिकाले गन्धादिभिः सहात्म [म] नः [कु०] मनस्त्वं नामेति (कं. 90.2) / "(न) तस्य धर्मनिरूपणमिति (कं. 90.5) / इतरव्यवच्छेदरूपसाध्यधर्मनिरूपणमसिद्धे मिणि न युक्तमिति भावः / सत्यपीति (कं. 90.6) अत्र कार्यशब्देन कदाचिदिति गम्यते। तेन सर्वथाङ्कार्यानुत्पादके शिलादौ न व्यभिचारः / न हि तेन कदाचिदप्यकुरादिकं [ज] न्यते / 1, 2 तासु परं-कं. 1; कं. 2 / 3 स्तावत्सर्वेन्द्रियः- कं. 1; कं. 2 / 4 ज्ञानादीनां-जे. 1; जे. 2; जे. 3 / 5 तु अवकपुस्तकेषु नास्ति / 6 कस्य हेतो:-अ, ब, क; 7 गमनात् मवात्र-अ, ब, क; 8 इन्द्रियाणि-अ, व इन्द्रियाण-क; 9 सहा-अ, ब, क; 10 विषयाणि-अ, ब; 11 संयोगा-अ; 12 साध्यन्ते तेन- अ, ब, क; 13 मभिनिहितस्य-अ, ब, क; 14 'चाञ्जनस्य' इति अबपुस्तकयो स्ति। 15 [ ] एतच्चिह नान्तर्गतः पाठः अबकपुस्तकेषु आवृत्तः / 16 नन्वनुमान-अ, ब, क; 17 स्वप्नं ज्ञानं भवति-अ; 18 अत्र कन्दल्या 'तस्य धर्मनिरूपणम्' इति पाठः अत्र तु 'न' इत्यधिकः, 'धर्मनिरूपणमतमिति' च पाठः अत्र 'मत' इत्यधिक भाति इति शुद्धः पाठः स्थापितः - सं.।