________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 225 न्यायकन्दली 'रूपविशेषो वा ? तप्तायः पिण्डे वढेरपि स्यात् / अथेन्धनविशेषप्रभवत्वं स्वभाव इति ? अनिन्धनप्रभवस्य विद्यदादिप्रभवस्य चोर्ध्वज्वलनं न स्यात् / अथातीन्द्रियः कोऽपि स्वभावः कासुचिद् व्यक्तिष्वस्ति यासामूर्ध्वज्वलनं दृश्यत इति, पुरुषगुणे कः प्रद्वेषः ? 'यस्य हि कर्मणो गुरुत्वद्रवत्ववेगान कारणं तस्यात्मविशेषगुणादुत्पादः, यथा पाणिकर्मणः पुरुषप्रयत्नात्, ऊर्ध्वज्वलन'तिर्यग्गमनादीनां कर्मणां गुरुत्वादयो न कारणमभावात्, तत्तत्कार्यविपरीतत्वाच्च / तस्मादेषामप्यात्मविशेषगुणादेवोत्पादो न्याय्यः / ऊर्ध्वज्वलनतिर्यक पवनान्यात्मविशेषगुणकृतानि गुरुत्वादिकारणाभावे सति कर्मत्वात् पुरुषप्रयत्नजपाणिकर्मवत् / / सन्निकर्षजत्वात्सुखादीनां संयोगः / सुखादीनामात्मगुणानां मनःसंयोगजत्वावात्मनि संयोगः सिद्धः, व्यधिकरणस्यासमवायिकारणत्वाभावात् / तद्विनाशकत्वाद् विभाग इति / तस्य संयोगस्य विनाशकत्वाद् 'विभागः सिद्धः, आत्ममनसोनित्यत्वेनाश्रयविनाशस्य [टि०] तस्कार्यविपरीतत्वाद् इति -गुरुत्वकार्याद् अधःपतनाद् वहिवायुकर्मणी विपरीते। एवं व्याप्तिसिदावनुमान यन्तिऊर्वज्वलनेति:-नभयत्रापि वेगोऽस्तीति विशेषणा सिद्धत्वम् ? नैवम्, "वेगोत्पत्तौ कर्मणः कारणत्वान्नो"वमाद्यभावे / कर्मोत्पत्त्यभावात् तदभावे च वेगोत्पत्त्यभावात्। // आत्मा // [पं०] सम्बध्यते / स्वाश्रयसम्बन्धद्वारेण तस्य सम्बन्ध इत्यायातमित्यपि पाठः क्वचिदृश्यते / सोऽपि श्लाधीयान् / नाइष्टाविति धेदिति-नादृष्टवंशादिति चेदिति द्वौ पाठौ स्तः / अर्थस्तुल्यः / तप्तायःपिण्डे वह्नरपि स्यादिति कोऽर्थः? तप्तायापिण्डवह्वेरप्यूर्वज्वलनं प्राप्नोति / न च तस्यो+ज्वलनमित्यर्थः / अनिन्धनप्रभावस्येति सूर्यकान्तानो / पुरुषगुणे इति कु.] कः श्रद्धेय इति धर्मिकल्पनातो वरं धर्मक [ल्प] नेत्यर्थः / . गुरुत्वद्रवत्ववेगा इति (कं. 88.21) नोदनाभिघातयोरप्युपलक्षणम् / आत्मविशेषगुणादिति (कं. 88.21) स चात्मविशेषगुणो दृष्टान्तेषु प्रयत्नः / अग्न्यूद्धज्वलनहेतुरदृष्टं स्वकार्यकर्माश्रयसंयुक्तसमवेतं व्यधि [करण] कर्महेतुगुणत्वात् विप्लवदातुकर्महेतुस्रोतवत इति विभुत्वानुमानं द्रष्टव्यम् / . व्यधिकर[णस्येति (कं. 88.26) भावे वा यत्र कुत्रचिदन्त्यतन्तुयोगे सति रण्डाकार रण्डावस्थितेभ्योपि तन्तुभ्यः पट उत्पद्यतेति भावः / संयोगकार्यतया तावदवश्यं विनाशां [शः] / विनाशश्च विरोधिगुणाद्वा आश्रयनाशाद्वेति द्वितीयगतिरित्याशयवानाह आत्ममनसोरिति (कं. 89.1) / / 1 रूपादिविशेषो-जे. 3 / 2 पिण्डे-कं.१; कं. 2 / 3 यस्य कर्मणो-कं. 1; कं. 2 / 4 तिर्यपवनादीनां -कं.१.कं. 2; जे. 1, जे. 2 / 5 पवनादीति-जे. 3 / 6 विभागसिद्धिः--जे.३। 7 वह्निर्वायु-भ3; 8 -यति - अ, ब, क, ड; 9 सिद्धित्वम् -अ, ब, क; 10 गोत्पत्ती-अ; 11 नोद्यना-अ, ब, क; 29