________________ 224 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् {95] पृथक्त्वमप्यत एव। 'तथा चात्मेतिवचनात् परममहत्परिमाणम् / सन्निकर्षजत्वात् सुखादीनां संयोगः / तद्विनाशकत्वाद्विभाग इति / न्यायकन्दली [95] पृथक्त्वमप्यत एव / “नानात्मानो व्यवस्थातः” इति वचनादेव पृथक्त्वं सिद्धम्, सङ्खयानुविधायित्वात्पृथक्त्वस्येत्यभिप्रायः। तथा चात्मेतिवचनात्परममहत्परिमाणमिति। "विभववान् महानाकाश" "तथा चात्मा" (वै. सू. 7-1-22) इति सूत्रकारवचनादाकाशवदात्मनोऽपि विभुत्वात् परममहत्परिमाणं सिद्धमित्यर्थः / विभुत्वञ्चात्मनो बढेरूवंज्वलनाद वायोस्तिर्यग्ग'मनादवगतम् / ते ह्यदृष्टकारिते। न च तदाश्रयेणासम्बद्धमदृष्टं तयोः कारणं भवितुमर्हति, अतिप्रसङ्गात् / न चात्मसमवेतस्यादृष्टस्य साक्षाद्रव्यान्तरसम्बन्धो घटत इति स्वाश्रयसम्बन्धद्वारेण तस्य सम्बन्ध 'इत्यायातम् / ततः समस्तमूर्तद्रव्यसम्बन्धलक्षणमात्मनो विभुत्वं सिद्धयति / स्वभावत एव वह्नरूद्धज्वलनं 'नादृष्टवशादिति चेत् ? कोऽयं स्वभावो नाम ? यदि वह्नित्वमुत दाहकत्वम् ? [टि०] [95] ननु युगपत्सर्वैर्भूतः सह संयोगो विभुत्वं तत् कथमात्मनि सिद्धमित्याह विभुत्वं च इति / न च तबाभयेण इति :-तयोरूध्वंज्वलनतिर्यक पवनयोः / अनुमानं च आत्मा विभुः अणुत्वाभावे सति नित्यद्रव्यत्वात् गगनवत् / अणुत्वे शरीरस्य सर्वस्याचैतन्यप्रसङ्गः। अनिन्धनप्रभवस्य इति :-अनिन्धनं मण्यादितेजः विद्युदाद्यबिन्धनम् / [पं०] [95] तदाश्रयेणेति तयोरुद्धज्वलनतिर्यक्पवनयोराश्रयेण वह्निवायुलक्षणेन / तयोरिति ऊर्ध्वज्वलनतिर्यक्पवनयोः / न च तदाश्रयेणासम्बसमदृष्टं तयोः कारणं भवितुमहंतीति / अत्राह कश्चित् तिलकभ्रामकलोहप्रमुख>भिचार इति / नैवम् / तिलकभ्रामकलोहप्रमुखानां द्रव्यत्वात् / भइष्टस्य च गुणत्वात् / द्रव्यान्तरसम्बन्ध इति वयादिसम्बन्धः / स्वाश्रयसम्बन्धद्वारेण तस्य सम्बन्ध इति न्यायादिति तस्यादृष्टस्य वह्नयादिना सह सम्बन्धो भवति / कथं ? स्वाश्रयसम्बन्धद्वारेण / अयं भावः –अदृष्टमात्मन्याश्रितम्, आत्मा च विश्वव्यापीत्यतोऽदृष्टमपि तत्संबद्धस्वाद्विश्वव्यापि / अतो दूरे दूरतरेऽपि वह्नयादिना सहादृष्टं [10] [95] नन्वात्मा विभः / वायोस्तिर्यग्गतिमत्वाद लेक ज्वलनादिति किं केन सम्बन्ध [ध्यते] इत्यत आह ते होति (कं.८८.१२) / स्वभाव एवेति (कं. 88.16) तदीयोष्णस्पर्शवत्कारणान्तरनिरपेक्षमित्यर्थः / स्वभावो नाम नियमस्य प्रयोजको धर्मः / स चेह तेजोजातिविशेषागा, उष्णस्पर्शो वा रूपविशेषो वा, कारणविशेषो वा, अतीन्द्रियो 1 तथात्मवचनात् -ता; तथा चात्मवचनात् - व्यो. (410) / 2 तद्विनाशात्-ता। 3 पवनात् - कं. 1; मे. 1; जे.२। 4 इति न्याय्यम् - जे. 3 / 5 नादृष्टादिति- कं. 1; कं. 2 / 6 पवनयोर्वाऽनुमानं-ब; 7 स्य चैतन्य-अ, क; 8 इत्यात्तं-कं। 9 स्वभावत-कं. 1; कं. 2 /