________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 223 न्यायकन्दली जन्मान्तरकृतस्य तत्तदाहार विशेषाभ्यासस्यानुमानपरम्परया तस्यानादिशरीरयोगप्रतीतेः, तत्राविद्याकृतो जीवभेदो जीवभेदाच्चाविद्येत्यसङ्गतिः / ब्रह्मवज्जीवस्याप्यनादिनिधनत्वेन ब्रह्मप्रतिबिम्बता, तस्मात् “तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति" इति श्रुतिप्रामाण्यादनादिनिधनं ब्रह्मतत्त्वमेवेदं सर्वदेहेषु 'काशते इति वाच्यम्, तथा सति चानुपपन्ना व्यवस्थेति सूक्तं "नानात्मानो व्यवस्थात" इति / अभेदश्रुतयस्तु गौणार्था 'इत्येषा दिक / न च नानात्मपक्षे सर्वेषां क्रमेण मुक्तावन्ते 'संसारोच्छेदः, अपरिमितानामन्त्यन्यूनातिरिक्तत्वायोगात् / यथाहुत्तिककारमिश्रा: ' अत एव च विद्वत्सु मुच्यमानेषु सन्ततम् / 'ब्रह्माण्डलोकजीवानामनन्तत्वादशून्यता // अन्त्यन्यूनातिरिक्तत्वे युज्यते परिमाणवत् / . * वस्तुन्यपरिमेये तु नूनं तेषामसम्भवः // इति / | ननु तर्हि एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन इत्यादि 'अभेदप्रतिपादकश्रुतिविरोध इत्याह अभेदश्रुतयस्तु इति / गौणार्था इति अन्याभिप्रायपराः परमब्रह्मण इव (एव) ध्येयत्वख्यापनपरत्वान्नासाम् / “अपरिमितानामिति - 'स्व'शब्दस्त्रयेणाभिसम्बध्यते / अपरिमिता एतावन्त: 'सन्त्येते इति परिछिन्नाः / पिं०] बीजांकुरव्यक्तेः भेदः पारमार्थिकस्तथाऽविद्याजीवयोर्भेदो न पारमार्थिकः / तमेव भान्तमनुभातीति तमेव परमात्मानं प्रकाशमानमनुप्रकाशते / सर्वमिति स्तंभकुम्भादि / तस्य भासा इति तस्य परमात्मानः प्रतिभासेन / तथा सतीति जीवात्मनां ब्रह्मप्रतिबिम्बत्वे सति / गौणार्या इति-अन्यार्थप्रतिपादनपराः / परमब्रह्मण एव ध्येयत्वख्यापनार्थत्वात / वातिककारमिश्रा इति उद्योतकराचार्याः / परिमाणवदिति-अत्र मतु[प] प्रत्ययः / परिमाणयुक्तं वस्त्वित्यर्थः / [कु०] एकस्यैवानेकशरीरयोगे प्रमाणसिद्ध प्रतिजन्म जीवभेदकल्पनाया अनुपपत्तिरिति भावः / ब्रह्मवदिति प्रतिबिम्व[व]दग्राहिकाया अप्यविद्याया अनादित्वादिति शेषः / तस्मादिति (कं. 87.24) एवं जीवपरमायो [मात्मनो] भ्रन्तेिऽपि भेदो न सिद्धयति यदा तदा व्यवस्था नोपपद्यत इति भावः / गौणार्या इति (कं. 88.1) स्वात्मसाक्षात्कारेणापवर्ग इति तस्यकत्वभेदश्रुतीनामर्थ इत्यर्थः / किञ्चैत्मकस्य [कस्य] चिद्वयासादे: साधनानुष्ठानेन सम्भवन्त्यां मुक्तौ जगदेव मुच्येत; असम्भवत्यामतःपरमपि न सम्भवत्येव तच्चोद्यमस्मत्पक्षं नावगाहत इत्यभिप्रायेण स्वपक्षं निर्वक्ति न चेति (कं. 88.1) / 1 विशेषस्या-कं. 1; कं. 2 / 2 प्रकाशते इति न वाच्यम्- कं. 1; कं. 2 / 3 इति दिक् - कं. 1, कं. 2 / 4 संसारोच्छेदप्रसङ्गः-जे. 3 / 5 ब्रह्माण्डलोके-कं.१; कं. 2 / 6 भेद -अ; 7 गौणार्था अन्याभि० - अ, ब, क; 8 अपरमित्तानाम् - अ, ब; 9 सन्ति ये इति-ब;