________________ 222 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली [94] अथ मतम्, एकत्वेऽपि परमात्मनो जीवात्मनां परस्परभेदाद् व्यवस्थेति, तदसत्, 'परमात्मनो जीवात्मनां भेदेऽद्वैतसिद्धान्तक्षतिः, “अनेन 'जीवेनात्मनानप्रविश्य नामरूपे व्याकरवाणि" इति जीवपरमात्मनोस्तादात्म्यश्रुति'विरोधश्च / अविद्याकृतो जीवपरमात्मनोभेंद इति चेत् ? कस्येयमविद्या ? किं ब्रह्मणः ? किमुत 'जीवानाम् ? न तावत् ब्रह्मणोऽस्त्यविद्यायोगः, 'शुद्धबुद्धस्वभावत्वात् / जीवाश्रयाविद्येति चान्योन्याश्रयदोषपराहतम्, अविद्याकृतो जीवभेदो जीवाश्रयावियेति / बोजाङकुरवदनादिरविद्याजीवप्रभेद इति चेत् ? बीजाङकुरव्यक्तिभेववदविद्याजीवयोः पारमार्थिकत्वाभावा'दनपपन्नं व्यक्तिभेदेन च बीजाङकुरयोरन्योन्यकारणता, जीवस्तु सर्वासु भवकोटिष्वेक एव, मानुषपशुपक्ष्यादियो निषु प्रत्यग्रजातस्य शिशोर्जातिसाम्यावाहारविशेषाभिलाषेण तासु तासु जातिष [टि०] [94] नन्वेव मतपक्षेऽपि भविष्यति यथा नानात्ववादिना योगिनः कृतानेक "[शरीरस्यादृष्टविशेषात् सुखदु खादिव्य वस्थेति / नैवम् , योगिन इव अस्मदादेरप्यन्य] शरीरसुख"दुःखानामात्मीयत्वेन प्रतिसन्धानप्रसङ्गात् / अनेन जीवेन इति:- नाम गवाश्वादिकम् , रूपं खुरकुकुदलाङ्कलसानादिमत्त्वाद्याकारविशेषः। "[अनेन जीवेन प्रविश्य अहं ब्रह्म, कर्ता नामरूपे कथयामि / ] ननु बीजाङ्कुरादिवद् अनादित्वादन्योन्याश्रय इत्याशङ्कय परिहरति बीजाकुरवत् "इत्यादि / "बीजाकुरव्यक्तिभेदवद् इति व्यतिरेकदृष्टान्तः / [पं०] [94] परस्परभेवाद् व्यवस्थेति-अत्र व्यवस्था धर्माधर्मादि "परमात्मनो जीवात्मनां भेद इति अत्र परमात्मन इति पंचम्येकवचनम् / तमनुप्रविश्येति-देहान्तरसंक्रम्य / नामरूपेति-प्रमाणप्रमेये। व्याकरवाणीति परमात्मरूपो वेवः प्राह / येन संबन्धोपाधिना जीवात्मनां परस्परं भेदः परमात्माभेदेपोत्येवं त्रिदण्डीरूपवेदान्तिकमतमपास्यकदण्डीमतं निराकुर्वन्नाह-अविद्याकृतो जीवपरमात्मनोभेंद इति। चेत्यादिना / ब्रह्मणः इति = परमात्मनः / शुद्धबुद्धिस्वभावस्वादिति शुद्धबुद्धस्वभावत्वादिति द्वो पाठो स्तः / बीजांकुरव्यक्तिमेवववविद्याजीवयोः पारमार्थिकत्वाभावादिति यथा [कु०] [94] अथ मतमिति (कं. 87.11) जीवानां परस्परभेदाद् व्यवस्था। परमात्मेन एकत्वाच्चैकात्म्यमिति शङ्कायाः [परिहारमाह] तवसविति (कं. 87.12) / किं ते जोवा: परमात्मनोऽभिन्ना [भिन्ना] वा ? आद्येऽभिनेन परमात्मनोऽभिन्नानां जीवानां परस्परं भेदानुपपत्त्या व्यवस्थानुपपतिरित्याशयवान् द्वितोये दूषणमाह परमात्मन इति (कं. 87.12) / नन्वविद्याजीवयोरपि कल्पितो व्यक्तिभेदो भविष्यति / ततश्च बीजाकुरवदनादितया परस्पराश्रयस्वमपि न दोषायेत्यत आह जीवस्त्विति (कं. 87.19) / साम्येन जात्युन्निन्त्री तेन / असङ्गतिरिति (कं. 87.23) 1 परमात्मनो भेवे - कं. 1; कं. 2 / 2 जीवेनानुप्रविश्य - जे. 1; जे. 2; जे. 3 / 3 विरोधाच्च - कं. 1; कं. 2 / 4 जीवात्मनाम् - जे. 3 / 5 शुद्धबुद्धि-जे. 2 / 6 °दनुपपन्नः-जे. 2; जे.३। 7 योनिप्रत्यग्रकं. 1; कं. 2 / 8 मध्यत-अ, ब; 9 वादिना-ड; 1. [ ] एतच्चिह्नान्तर्गतः पाठः भ पुस्तके नास्ति, 11 दुःखानात्मीयत्वेन - अ, ब, 12 प्रीतसन्धान - अ% 13 [ ] एतच्चिह्नान्तर्गतः पाठः डपुस्तके नास्ति / 14 इति-अ; 15 बीजाङकुरवद्-अ, ब, क; 16 परमात्मनो भेद-कं /