________________ 221 टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् न्यायकन्दली अथ केयं व्यवस्था ? 'नानादेहभाविनां ज्ञानसुखादीनामप्रतिसन्धानम्, ऐकात्म्ये हि यथा 'बालावस्थायामनुभूतं वृद्धावस्थायामनुसन्धीयते मम सुखमासीन्मम दुःखमासीदिति, एवं देहान्तरानुभूतमप्यनुसन्धीयेत, अनुभवितुरेकत्वात् / न चैवमस्ति, अतः प्रतिशरीरं नानात्मानः। यथा सर्वत्रकस्याकाशस्य श्रोत्रत्वे कर्णशष्कुल्याग्रुपाधिभेदाच्छब्दोपलब्धिव्यवस्था, तथात्मैकत्वेऽपि रेहभेवादनुभवादिव्यवस्थेति चेद् ? विषमोऽयमुपन्यासः, प्रति-पुरुषं व्यवस्थिताभ्यां धमधिर्माभ्यामुपगृहीतानां शब्दोपलब्धिहेतना कर्णशष्कुलीनां व्यवस्थानाधुक्ता तवधिष्ठाननियमेन शब्दग्रहणग्यवस्था। ऐफारम्ये तु धर्माधर्मयोर'व्यवस्थानाच्छरीरव्यवस्थाभावे किं कृता सुख दुःखाद्यत्पत्तिग्यवस्था ? मनस्सम्बन्धस्यापि साधारणत्वात् / यस्य तु नानात्मानः, तस्य सर्वेषामारमनां सर्वगतत्वेन सर्वशरीरसम्बन्धेऽपि न साधारणो भोगः। यस्य कर्मणा यच्छरीरमारग्धं तस्यैव तदुपभोगायतनं न सर्वस्य, कर्मापि यस्य शरीरेण तस्यैव तद्भवति नापरस्य, एवं शरीरान्तरनियमः कान्तरनियमादित्यनाविः / [टि०] नन्वात्मनानात्वपक्षेऽप्यात्मनो ब्यापकत्वात् सर्वशरीरमनःसम्बन्ध स्य साधारणत्वात् समानो दोषः इत्याह यस्य तु नानात्मान इति / कर्मनियमात् शरीरनियमः, शरीरनियमाप कर्मनियम इत्यम्योन्याश्रयस्थानादित्वं परिहारमभिप्रायीकृत्य प्राह एवं च शरीरान्सरनियम इति / [पं०] अथ केयं व्यवस्थेति प्रश्नः / उत्तरं तु ना नादेहभागिनां शामसुखादीनामप्रतिसन्धानमित्यादि। परः प्राह यथा सर्वत्रकस्यति / [कु०] व्यवस्थापि भ्रान्तिसिद्धेत्याशयवान् पुग्छति अथ केयमिति (कं. 86.24) विदित [ता] भिसंवेत्तुत्तरे ?" नानादेहभाविनामिति (कं. 86.24) अब प्रयोगः विमतानि सुखादीनि भिन्नाधिकरणानि अप्रतिसन्धीयमानत्वात यान्यभिन्नाधिकरणानि तानि प्रतिसन्धीयन्ते यथा मामकानीति व्यतिरेकी। अत्र शरीरभेदम्यावृत्तप्रयुक्तमप्रतिसन्धानमित्याशङ्कयाह "ऐकात्म्यन्नति [ऐका म्ये हीति] / / विषम इति (कं. 87.3) श्रोत्रभेवव्यवस्था एककणंशष्कुलीभेदोपपादकधर्माधर्मभेदप्रयोजकात्मभेदस्य विद्यमानत्वं दृष्टान्तदाान्तिके तु व्यवस्थायाः प्रयोजकस्य विद्यमानत्वमिति वैषम्यम् / मनःसम्बन्धस्यापीति (कं. 87.7) "योऽहं रूपमद्राक्षं सोऽहं (सोऽहम) स्पर्श स्पशामीति कर्तरेकत्ये करणभेदः सन्नपि नानसन्धान प्रतिहन्तीति भावः / 1 नानाभेद-कं. 1, कं. 2 / 2 बाल्या-कं. 1, कं. 2 / 3 रम्यवस्थापनाद् - जे. 3 / 4 °दुःखोत्पत्ति-कं. 1; कं. 2 / 5 च-जे. 3 / 6 धस्या-अ, ब, क; 7 नात्मान-अ 8 नानाभेद०-कं। 9 पाठोऽर्थदष्टघा न स्पष्टः / 1. नानाभेद -कं. 1, कं. 2 / 11 ऐकात्म्ये हि-कं. 1, कं. 2 / 12 षोहं-Ms.