________________ 220 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली अन्यथा तयोः सुखादिसाधर्म्यकथनेनानारम्भकत्व'समर्थनमसम्बद्धं स्यात् / संस्कारः स्मृत्युत्पत्ताविति। आत्ममनसोः 'संयोगाविशेषात् संस्काराच्च स्मृतिरिति (वै. सू. 9-2-6) सूत्रं लक्षयति / पूर्वानुभूतोऽर्थः स्मर्य्यते, न तत्रानुभवः कारणम्, चिरविनष्टत्वात्, नाप्यनुभवाभावः कारणमभावस्य 'निरतिशयत्वेन स्मृतेः पटुमन्दादिभेदानुपपत्तेरभ्यासवैयर्थ्याच्च / तस्मादनुभवेमात्मनि कश्चिदतिशयः कृतो यतः स्मरणं स्यादिति संस्कारकल्पना / ये तु विनष्टमप्यनुभवमेव स्मृतेः कारणमाहुः, तेषां विनष्टमेव ज्योतिष्टोमादिकं 'स्वर्गादिफलस्य साधनं भविष्यतीत्यदृष्टस्याप्युच्छेदः स्यात् / व्यवस्था वचनात् संख्येति / ""नानात्मानो व्यवस्थातः" (वै. सू. 3-2-16 अथवा 3-2-20) इति सूत्रेणात्मनानात्वप्रतिपादनाद बहुत्वसङ्घया सिद्धत्यर्थः / [टि.] केचिदात्माद्वैतवादिनोऽनुमानयन्ति विवादाध्यासिता "देहा “मदीयेनैवात्मना आत्मवन्तः, देहत्वात्. मदीयदेहवद् इति / तत्र आत्मवत्त्वं 'यद्यात्मसंयोगमात्रं विवक्षितं तदा सिद्धसाधनम् / अथ भोगाय"तनत्वेन तद्वत्त्वं तहि सुखादिप्रत्यभिज्ञानबाधा, विपक्षे बाधकाभावाच्च सन्दिग्धविपक्षव्या वृत्ततेति / तत्र प्रत्यनुमानं सूचयति "नानात्मनः इति:'म्यवस्थितत्वाद' इति हेतुः पूर्वापरवेश्मस्थितप्रदीपवद् गृहपतिवद् वा। नन्वात्मनां भेदासिद्धौ बहवसंख्याया अप्यसिद्धेः 'आत्मानः' इति पक्षे कथं बहुवचनम् ? सत्यम्, स्वसिद्धयपेक्षया बहुवचनं दत्त्वा परं प्रति हेतूपन्मासः / [पं०] वह्नादावन्यत्रापि ज्वलनक्रियाहि (हे) तुत्वात् / निरतिशयत्वेनेति निरूपाख्यत्वेन / येत्विति - मीमांसकाः / [कु.] "आत्मान इति (कं. 86.23) बहुवचनेनानुवादः सजातीयापेक्षामन्तरेण नोपपद्यते / ततश्च बहुत्वसङ्ख्याविना- . भावीति भावः / कश्चित्सुखी कश्चिदुःखीतीयं व्यवस्था एकत्वेऽप्युपपते ? पादे मे सुखं शिरसि मे वेदनेतिवच्छरीरा "भावेनापि कश्चिन्मुक्तः कश्चित्संसारीति व्यवस्था एकात्मकवादिभि [र] नङ्गीकृते अद्यापि कस्यचिदमुक्ते, वसिष्ठो मुक्तो वामदेवो मुक्त इत्यादीनि तु वाक्यानि मुक्तिसाधनसम्बन्धमात्रेणोपचारात्प्रवृत्तानीत्यङ्गीकारात् ईश्वरानीश्वर 1 समर्थनं स्यात-जे. 2; समर्थनं न स्यात-कं. 1, कं. 2 / 2 संयोगात् संस्काराच्चेति स्मृतिसूत्रं-कं. 1, कं.२; संयोगात् संस्काराच्च स्मृतिरिति - जे. 1; जे. 2; जे. 3; 'वस्तुतः आत्ममनसोः संयोगविशेषात् संस्काराच्च स्मृतिः' इति सूत्रपाठे पाठः तदनुसारी च पाठोऽस्माभिः स्थापितोऽत्र-सं.। 3 निरतिशयत्वेन पटुमन्दादि° - कं. 1, कं. 2 / 4 स्वर्गादिफलसाधनं-कं. 1 / 5 'व्यवस्थातो नाना' (वै. सू. 3-2-20) इति सूत्रपाठः; 'नाना व्यवस्थातः इत्यपि पाठः चन्द्रानन्दविरचितसूत्रपाठे तत्र तु सङ्ख्या 3-2-16 / 6 आत्मनां नानात्व - जे. 1; जे. 2; जे. 3 / 7 देहाद्या-अ, ब, क; 8 मदीयेनेवात्मना-अ; 9 यदात्म-ड; 10 -यतन तद्वत्त्वं-अ; यतनत्वेन वद्वत्त्वं-ड; 11 वृत्तेति; 12 नात्मान-अ; 13 नानात्मान-कं. 1; कं. 2 / 14 भाद-Ms.