________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 219 प्रशस्तपादभाष्यम् [93-94] तस्य गुणा बुद्धि सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागाः। आत्मलिङ्गाधिकारे बुद्धयावयः प्रयत्नान्ताः सिद्धाः। धर्माधर्मावात्मान्तरगुणानाम'कारणत्ववचनात् / संस्कारः, स्मृत्युत्पत्तौ कारणवचनात् / व्यवस्थावचनात् सङ्घचा। न्यायकन्दली [93] एवं व्यवस्थिते सत्यात्मनो गुणान् कथयति-तस्य गुणा इत्यादिना। बुद्धघादीनामात्मनि सद्भावे सूत्रकारानुमति वर्शयति-[भात्मलिङ्गाधिकारे बुद्धचावयः प्रयत्नान्ताः सिद्धा इति / आत्मलिङ्गाधिकार इति प्राणापानादिसूत्रं (वै. सू. 3-2-4) लक्षयति / 'धर्माधर्भावात्मान्तरगुणानामकारणत्वाविति वचनासिद्धौ / वातरि वर्तमानो दामधर्मः 'प्रतिग्रहीतरि वर्तमानं प्रतिग्रहधर्म जनयतीति कस्यचिन्मतं 'प्रतिषेधयता सूत्रकृतोक्तम्"आत्मान्तरगुणानामात्मान्तरगुणेष्वकारणत्वात्" (. सू. 6-1-7) इति / अस्यायमर्थः -आत्मान्तरगुणानां सुखादीनामात्मान्तरगुणेषु सुखाविषु कारणत्वाभावाद्धर्माधर्मयोरन्यत्र वर्तमानयोरन्यत्रारम्भकत्वम युक्तमिति / एतेन धर्माधर्मयोरात्मगुणत्वं कथितम्, [टि०] [93] आत्मान्तरगुणानाम् इतिः - ननु पुत्रसुखं पितुः सुखकारणं भवति ? मैवम्, तत्रापि 'मुखप्रसादाचनमितसुखशानस्य कारणत्वात् / [पं०] [93] कस्यचिन्मतमिति जरन्मीमांसकमतम् / अन्यत्रारंभाकस्यमयुक्तमिति - भन्यमारमन्येवेति दृष्टव्यम् / [कु०] [93] अन्यथेति (कं. 86.15) भनात्मगुणयोधर्माधर्माधाराः (रयो) रात्म[7] णैः सुग्नादिभिः साधर्म्य कथनं न संगतं स्यादित्यर्थः / सूत्रस्य प्रमाण सिद्धार्थानुवादकत्वात्सूत्रकारस्य हृदि विपरिवर्तमानं प्रमाणमाह (पूर्वानुभूत इति-(कं. 86.18) / अन्वयव्यतिरेकाभ्यामन्वयस्यैव स्मृतिका रणमस्त्वित्यत आह म तत्रेति (कं. 85.18) / अभावस्यापि प्रतियोग्यतिशयकृत (तो) योऽतिशयो भविष्यतीत्यत माह - अभ्यासेति (कं. 86.19) / ननु पूर्वपूर्वानुभवकतातिशयोत्तरोत्तरानुभवानुशय कल्पमायां सर्वमेतदसमञ्जसं स्यादित्यत आह येस्विति (कं. 86.21) अत्रायं प्रयोग: स्मृतिरनुभवजनिताऽतिशयकार्या शा (सा)तिशयत्वे सति चिरविनष्टतदन्वयव्यतिरेकानुविधायित्वात् / / / मकारणवचनात्-ता; दे। 2 तस्य च - कं. 1; कं. 2 / 3 [ ] एतच्चिह्नान्तर्गत: पाठ: जे. 2 पुस्तके नास्ति / 4 'धर्माधर्मावात्मान्त रगणानामकारणत्ववचनादिति' - अधिकः पाठः कं. 1, कं. 2 पुस्तकयोर्दष्ट: / 5 आत्मगुणेष्वात्मान्त रगुणानामकारणत्वात् (4. सू. 6-1-7) इति सूत्रम्-से। 6 प्रतिग्रहीतरि धर्म-कं. 1, प्रतिगृहीतरि अधर्म-कं. 2 / 7 निषेद - जे. 3, कं. 1, कं.२ प्रतिषेद्धं-जे.१। 8 मयुक्तम् -जे. 3 / 9 सुख-भ, ब;