________________ 218 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली गुणनिवृत्तिर्गुणान्तरोत्पादश्चाविरुद्ध एव / अथास्य नित्यस्य सुखदुःखाभ्यां कि क्रियते ? स्वविषयोऽनुभवः / सुखदुःखानुभवे सत्यस्यातिशयानतिशयरहितस्य क उपकारः ? अयमेव तस्योपकारोऽय मेव चातिशयो यस्मिन् सति सुखदुःखभोक्तृत्वम् / तथाहंशब्देनापीति / यथा सुखादिभिरात्मा अनुमीयते तथाहंशब्देनाप्यनुमीयते, अहंशब्दो लोके वेदे चाभियुक्तैः प्रयुज्यमानो न तावनिरभिधेयः / न च स्वरूपमभिधेयं युक्तं स्वात्मनि क्रियाविरोधात् / यथोक्तम्-"नात्मानमभिधत्ते हि कश्चिच्छब्दः कदाचन / " तस्माद् योऽस्याभिधेयः स आत्मेति नन्वयं पृथिव्यादीनामेव वाचको भविष्यति तत्राह-पथिव्यादिशब्दव्यतिरेकादिति / यो यस्यार्थस्य वाचकः स तच्छब्देन समानाधिकरणो दृष्टः, यथा द्रव्यं पृथिवीति / अहंशग्वस्य तु पृथिव्यादिवाचकैः शब्दैः सह व्यतिरेकः समानाधिकरणस्वाभावः, अहं पृथिव्यहमुदकमिति प्रयोगाभावात्, तस्मान्नायं पृथिव्यादिविषयः। ननु शरीरविषय एवायं दृश्यते स्थूलोऽहमिति ? न, अहं जानामि अहं स्मरामीतिप्रयोगात् / शरीरस्य च ज्ञानस्मृत्यधिकरणत्वं निषिद्धम, तस्मादात्मोपकारकत्वेन लक्षणया शरीरे तस्य प्रयोगः, यथा भृत्येऽहमेवायमिति व्यपदेशः / [पं०] समुच्चये / परवाक्यं - अथास्य नित्यस्येत्यादि / स्वरूपविषयोऽनुभवो [स्वविषयोऽनुभवो] इति द्वौ पाठौ स्तः / अर्थः सुगमः / आचार्यः-अयमेव तस्योपकार इत्यादि / यस्मिन् सतीति सुखदुःखानभवे सति / न च स्व रूपाभिधानं, युक्तमिति - अहमिति शब्दः / स्वरूपमेव स्वीयमेव रूपमभिधत्ते इत्यपि नेत्यर्थः / न च स्वरूपमभिधेयं युक्तमित्यपि पाठः क्वचिदृश्यते, सोऽपि सुष्टु / यथोक्तमिति उक्तं च भद्रेनेत्यर्थः / नास्तिकः प्राहः - नन्वयं पृथिव्यादीनामेवेत्यादि / [कु०] शब्दस्वरूपेणैव सिद्धसाधनत्वमाशङ्कय परिहरति न चेति (कं. 85.23) / स्वात्मनि क्रियाविरोधादिति (कं. 85.23) यत्तु सञ्ज्ञा (:) स्वरूपमेव प्रवृत्तिनिवृत्ति] मन्तमभिधाय सञ्जिनमभिदधत इति स्वरूपस्थाभिधेयत्वकल्पनं यज्जात्यादिनिमित्तान्तरविरहोपलक्षणपरमित्यविरोधः / नात्मानमिति (कं. 85.24) नात्म[म मान्तमिति विवक्षितम / अतः सर्वशब्दे शब्दशब्दे च न विरोधः / भाष्योक्तं परिशेषमवतारयति नन्वयमिति (कं. 85.25) / किमहं शब्दः पृथिव्यादिसामान्यविषयो वा, तविशेषविषयो बा ? नाद्यः घटादावभावादित्याह अहं पृथिवीत्यादि (कं. 86.2) / तहि सर्वा पथिवी सर्व वोदकमहमिति व्यपदिश्यतेत्यभिप्रायः। द्वितीयमाशङ्कय दूषयति 'नन्वयमिति (कं. 86.3) / 'तस्य गुणानिति (कं. 86.7) कादाचित्कतया कार्याणां सुखादीनां समवायिकारणसिद्धये द्रव्यत्वसिद्धये ('द्रव्यत्वसिद्ध) एवेति शेषः / यद्यपि सुख्यहं दुख्यहमिच्छामि द्वेष्मि प्रयत इत्येवं मनसा सर्वशरीरिभिः सुखादयोऽनुभयन्ते तथापि महर्षेौरवात्सूत्रसम्मतिं प्रति प्रदर्शनमित्यनुसन्धेयम् / 1 ऽयमेवातिशय:-जे. 3 / 2 यो हि-जे. 3 / 3 पृथिवी-जे. 3 / 4 ननु शरीरविषय एवायम्-कं. 1; कं. 2 इत्यत्र पाठः / 5 तस्य च गुणा-कं. 1; कं. 2 / 6 अधिकं भाति /