________________ टिप्पणपञ्जिकाकुसुमोदगमारिटीकात्रयोपेतम् 217 न्यायकन्दली श्रोत्रेन्द्रियभावमापन्नस्य यश्शब्दो गुणो भवति स तद्विवरव्यापीत्यव्यभिचारः / इतोऽपि न 'शरीरगुणाः सुखादयो भवन्ति, अयावद्रव्यभावित्वात् व्यतिरेकेण रूपादय एव निदर्शनम् / इन्द्रियगुणप्रतिषेधे तु नायं हेतुः, श्रोत्रगुणेन शब्देनाने'कान्तिकत्वप्रसङ्गात् / इतोऽपि न शरीरेन्द्रियगुणाः सुखादयो बाह्येन्द्रियाप्रत्यक्षत्वात् / शरीरेन्द्रियगुणानां द्वयी गतिः - अप्रत्यक्षता गुरुत्वादीनाम्, बाह्येन्द्रियप्रत्यक्षता रूपादीनाम् / विधान्तरन्तु सुखादयस्तस्मान्न तद्गुणा इति शरीरेन्द्रियगुणत्वे प्रतिषिद्धे परिशेषात्तरात्मानुमीयत इति स्थितिः। ___ ननु सुखं दुःखञ्चेमौ विकाराविति नित्यस्यात्मनो न सम्भवतः। भवतश्चेत् सोऽपि चर्मवदनित्यः स्यात् / न, तयोरुत्पादविनाशाभ्यां तदन्यस्यात्मनः स्वरूपप्रच्युतेरभावात् / नित्यस्य हि स्वरूपविनाशः स्वरूपान्तरोत्पादश्च विकारो नेष्यते, [रि०] द्रव्याश्रिताः तदनाश्रितत्वे सति गुणत्वात्, व्यतिरेके रूपादयः / ननु 'अहं' शम्देन अहं स्वरूपमेवाभिधास्यते इत्याह न च स्वरूपेति :-नन शब्द: स्वरूपाभिधास्यति ? न; तत्रापि शब्दत्वजात्यभिधानात् / [पं०] सोऽपि चर्मवदनित्यः स्यादिति वर्षातपाभ्यां कि व्योम्नः चर्मण्यस्ति तयोः फलम् / चर्मोपमश्चेत्सोऽनित्यः, खतूल्यश्चेदसत्फल: / / तयोरिति सुखदुःखयोः / तदन्यस्येति सुखदुःखव्यतिरिक्तस्वरूपस्य / 'गुणान्तरोत्पादस्त्वविरुद्ध एवेति अत्र तु शब्दः कु.] प्रसङ्गाद्वेदान्तिन उत्थाप्य दूषयति नन्विति (कं. 85.13) / सोऽपि 'चर्मबदनित्यः स्यादिति (कं. 85.14) येषां घटादिविकारमापन्नाः पृथिव्यादय इति / किमयं विकारो नाम? अनित्यधर्मयोगो वा? पूर्वावस्थापरित्यागेना वस्थान्तरापत्तिर्वा ? नाद्य इत्याह न तयोरिति (कं. 85.15) / धर्मर्मिणी परमार्थतो भिन्नौ; ततश्च भिन्नस्य धर्मस्योत्पादविनाशयो. स्वतोरपि धर्मिणो न किञ्चिदिति भावः / न द्वितीय इत्याह नित्यस्य हीति (कं. 85.16) / यद्यपि तथा शब्देनाहंशब्दस्य प्रकृतसुखादि सामं (म्यं) प्रतिपाद्यते तथापि शब्दस्याकाशगुणत्वान्न गुणतया आत्मनो लिङ्गं शब्द: किन्वतिभिधान तयेति (किन्त्वभिधानं तस्येति) दर्शयन् सामान्यतो दृष्टां (ष्टं)तावदाह अहं शब्द इति (कं. 85.22) / ततश्चोपमानोपमेयभावोलिङ्गत्वसामान्येन द्रष्टव्यः / अहमिति प्रत्यक्षेणात्मज्ञानाख्याने तु [त] था शब्दश्चानुमीयत इति शब्दश्च न सङ्गच्छेते इति पूर्वानुमानदृष्टान्तेषु सारथियन्त्रकारादीनां शरीर(रि)त्वाच्छरीरस्याधिष्ठातुश्च तद्विपरीतत्वाद्विशेषविपरीत इति चोद्यम् / तस्येत् वरसिद्धौ परिहृतत्वात् परिहाराय प्रत्यक्षोपवर्णनमिति न पेशलम् / 1 शरीरेन्द्रियगुणा:-कं. 1, कं. 2, जे. 2; जे. 3 / 2 कान्तिकत्वात्-कं. 1; कं. 2 / 3 स्वरूपमभिधेयम्-म. स्वरूपाभिधानम्-जे. 1, जे. 3, 4 मानात-अ, ब, क; 5 तरोत्पादश्चाविरुद्ध एव-कं / 6 धर्मवद्-MS. I 7 तद्विपरीर MS | 8 पाठोऽस्पष्टोऽतोऽर्थः न स्पष्ट:-सं। 28