________________ 216 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [92] ते च न शरीरेन्द्रियगुणाः, कस्माद'हङ्कारेणैकवाक्यताभावात् प्रदेशवृत्तित्वा. दयावद्रव्यभावित्वाद् * बाह्येन्द्रियाप्रत्यक्षत्वाच्च, तथा'हंशब्देनापि पृथिव्यादिशब्दव्यतिरेकादिति / न्यायकन्दली न शरीरेन्द्रियविषयाः। किञ्च, योऽनुभविता तस्यैव स्मरणमभिलाषः, सुखसाधनपरिग्रहः, सुखोत्पत्तिः, 'दुःखेषु द्वेष इति सर्व'शरीरिणां प्रत्यात्मसंवेदनीयम् / अनुभवस्मरणे च न शरीरेन्द्रियाणामित्युक्तम् / ततोऽपि सुखादयो न तद्विषयाः। [92] युक्त्यन्तरञ्चाह-प्रदेशवृत्तित्वादिति / दृश्यते प्रदेशवृत्तित्वं सुखादीनां पादे मे सुखं शिरसि मे 'वेदनेति प्रत्ययात् / ततश्च शरीरेन्द्रियगुणत्वाभावः, तद्विशेषगुणानां व्याप्यवृत्तित्वाव्यभिचारात् / सुखादयः शरीरेन्द्रियविशेषगुणा न भवन्ति, अव्याप्यवृत्तित्वात्, ये तु शरीरेन्द्रियविशेषगुणास्ते व्याप्यवृत्तयो दृष्टाः, यथा रूपादयः, न च तथा सुखादयो व्याप्यवृत्तयः, तस्मान्न शरीरेन्द्रियगणा इति व्यतिरेकी। कर्णशष्कुल्यवच्छिन्नस्य नभोदेशस्य . [टि०] [92] ननु श्रोत्रेन्द्रियं तावदाकाशं तस्य च गुणः शब्द: प्रदेशवृत्तिरस्तीति व्यभिचार इत्याह कर्णशष्कुली इति / ननु 'शरीरगुणो गुरुत्वमिन्द्रिय गुणाश्च रूपादयोऽप्यप्रत्यक्षास्ततो व्यभिचार इति बाह्येन्द्रियप्रत्यक्षत्वादित्यस्य मानसप्रत्यक्षत्वादित्यर्थमभिसन्धाय "प्राह-शरोरेन्द्रियगुणानाम् इति / परिशेषाद् इति "सुखादयः प्रतीतद्रव्यव्यतिरिक्त [पं०] [92] तद्विशेषगुणानामिति शरीरेन्द्रियविशेषगुणानाम् / व्यतिरेकोति केवलव्यतिरेकी हेतुः / इति व्य[इतव्य]भि चार इति कोऽर्थः ? तत्रापि व्याप्यवृत्तित्वं सिद्धमेवेत्यर्थः / इन्द्रियगुणप्रतिषेधे तु नायं हेतुरिति इन्द्रियगुणत्वप्रतिषेध. विषये पुनरयं हेतुरयावद्रव्यभावित्वाख्यो नोपयुज्यते इत्यर्थः / [कु०] [92] तद्विवरव्यापीति (कं. 85.7) परमाणुपरिमितस्य नभस: श्रोत्रत्वमभिप्रेत्ये-तदुक्तम् / (शब्द) प्राच्यत्वादिदिग्विशेषव्यपदेशेष्विन्द्रियव्यापकत्वेऽप्युदात्तानुदात्तादिवत्सानुनासिकवच्च ध्यनिधर्मोपाधितयोपपादनाय इत्यविरोधः। ननु शरीरेन्द्रियगुणत्वप्रतिषेधे बाह्येन्द्रियप्रत्यक्षत्वादिति व्यभिचारी हेतुः, चक्षुरादिगुणांनामप्रत्यक्षत्वादित्यत आह -शरीरेन्द्रियेति (कं. 85.10) / गुरुत्वादीनामित्यादिपदेन शब्दव्यतिरिक्तानां सर्वेषामिन्द्रियगुणानां ग्रहणम् / विधान्तरं त्विति (कं. 85.12) मानसप्रत्यक्षा इत्यर्थः / 1 दहङ्कारेण सह-ता। 2 वाक्यत्वाभावात् - व्यो. (406) / 3 तथाऽहशब्देन पृथिव्यादि - ता। 4 दुःखप्रद्वेष-कं. 1, कं. 2 / 5 शरीराणां-जे. 2 / 6 दुःखमिति - कं. 1, कं. 2 / 7 वृत्तिव्यभिचारात् - कं. 1, कं. 2 / 8 गुणौ-अ; 9 गुणश्च-अ, ब, क; 10 प्रहारं-म; 11 मुखादयाः - अ;