________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 215 न्यायकन्दली सिद्धिरस्तीत्यनेनाभिप्रायेणाह कस्मादिति / कारणमाह-अहङ्कारेणैकवाक्यताभावादिति / अहङ्कारेणाहमितिप्रत्ययेनैकवाक्यत्वमेकाधिकरणत्वं सुखादीनामहं सुखी अहं दुःखीत्यहङ्कारप्रत्ययविषयस्य सुखाद्यवच्छेद्यस्य प्रतीतेः। अहं प्रत्ययश्च न शरीरालम्बनः, परशरीरेऽभावप्रसङ्गात् / स्वशरीरे 'एवायं प्रत्ययो भवतीति चेन्न, अधिशेषात् / शरोरालम्बनो'ऽहंप्रत्ययः स्वशरीरवत् परशरीरमपि चेत् प्रत्यक्षं तत्र यथा 'स्थूलत्वादिप्रत्ययः स्वशरीरे परशरीरेऽपि भवति, एवमहमितिप्रत्ययोऽपि स्यात्, स्वरूपस्योभयत्राविशेषात् / स्वसम्बन्धिताकृते तु विशेषे तत्कृत एवायं प्रत्ययो न स्वरूपालम्बनः, सवालम्बनत्वे चान्तर्मुखतयापि न भवेत् / अत एवायं नेन्द्रियावलम्बनः, इन्द्रियाणामतीन्द्रियत्वात्, अस्य च लिङ्गशब्दाद्यनपेक्षस्य प्रत्यक्षप्रत्ययत्वात्, तस्मात् सुखादयोऽपि [टि०] इति-शरीरमालम्बनं यस्य स तथा / अनुभवस्मरणे इति-'न शरीरेन्द्रियमनसाम्' इत्यस्य भाष्यस्य ब्याख्यावसरे भूतरषात्कार्यत्वाच्चोक्तम् / शरीराणां भिन्नत्वेन प्रतिसन्धानमिन्द्रियाणां च विनाशे तदुपलब्धार्थस्मरणे विपक्ष बाधकमुक्तम् / ततोऽपि इतिः-सुखादयो न शरोरविषयाः अनुभव स्मरणाभ्यां सहैकाधिकरणतया प्रतिसन्धीयमानत्वात् म्यतिरेके यथा रूपम् / य एवाह गौर आसं स एवेदानीं श्याम इति तु प्रतिसन्धानं परिमाणभेदाच्छरीरभेदसिद्धया "वाधिप्तम्, प्रस्तुतं तु न "बाधितमित्यभ्रान्तमेवेति / [पं०] भविशेषादिति यदुक्तं तदेव प्रकटयति शरीरालम्बनोऽहंप्रत्यय इत्यादि - शरीरालम्बनोऽहंप्रत्यय इत्यतः पुर: ततश्चेत्यध्याहार्यम् / तस्कृत इति-आत्मकृतः / न स्वरूपालंबन इत्यर्थः / सवालंबनत्वे इति शरीरालंबनत्वे / न भवेदिति-भत्राहंप्रत्ययः कर्ता। अत एवेति अन्तर्मखत्वादेव / अस्य चेति - अहं प्रत्ययस्य च / शरीरेन्द्रियाणामित्युक्तमिति प्रागेव / न तद्विषया इति न शरीरेन्द्रियविषयाः / कु०] किमहंप्रत्ययः शरीरमात्रालम्बनस्तद्विशेषालम्बनो वा? नाय इत्याह परशरीरेऽपीति (कं. 84.17) / द्वितीयमाशय दूषयति स्वशरीर (कं. 84.17) इति / अविशेषाविति (कं. 84.18) आत्मनो देहव्यतिरेकासिद्धौ स्वपरशब्दोत्पा (वेत्यादि) देहविशेषणानुपपत्तेरित्यर्थः / विशेषाङ्गीकारे च सिद्धान्तः समीहितमित्याह "स्वसम्बन्धितयेति (कं. 84.20) / अन्तर्मुखतयेति (कं. 84.22) / मम शरीरमिति शरीरस्वामिविषयतेत्यर्थः / अत एवेति (कं. 84.22) 'चक्षुषा पश्यामि' इतीन्द्रियस्वामिविषयतयानुभवादित्यर्थः / किञ्चेत्याह इन्द्रियाणामिति (कं 84.22) / सुखादीनां शरीरेन्द्रियानाश्रयते(ति) स्वयं हेत्वन्तरमाह किञ्चेति (कं. 84.24) / संयोगादिसामान्यगुणैर्व्यभिचारपरिहाराय शरीरेन्द्रियविशेषगुणा न भवन्तीति] तत्र विशेषपदेन साध्यविशेषणम् / 1 ऽभावात् - कं. 1, कं. 2 / 2 एवायं भवतीति - कं. 1, कं. 2 स्वस्वशरीरे एवायं प्रत्ययो-जे. 2 / 3 ऽयंप्रत्ययः-जे. 1, हङ्कारप्रत्ययः-जे. 3 / 4 स्थलादि-कं. 1, कं. 2 / 5 शरीरालम्बन:-कं.१; कं.२। 6 शब्दानपेक्षस्य-कं. 1; कं. 2 / 7 तथा-अ, ब, क; 8 स्मरणा-अ, ब, क; 9 एव श्याम-अ; से एवेदानीं -ड; 1. बाधीतम्-अ, ब, 11 बाधितम् तदित्यभ्रान्तमेवेति-अ, ब, क; 12 परशरीरे कं. 1. कं. 2. कं. 84.19 इत्यत्र 'परशरीरेऽपि इत्यस्ति किन्वत्र तन्न ग्राह्यं तदनन्तरं स्वशरीरं इति प्रतीकस्य दर्शनात् -सं। 13 स्वसम्बन्धिता - कं. 1, कं. 2 /