________________ 214 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम न्यायकन्दली रसनेन्द्रि'यान्तरस्य विकारो दृश्यते, तस्मादुभयोर्गवाक्षकयोरन्तर्गतः प्रेक्षक इव द्वाभ्यामिन्द्रियाभ्यां रूपरसयोर्दर्शी कश्चिदेकोऽनुमीयते। किमुक्तं स्यात् ? कस्यचिदिष्टफलस्य रूपं दृष्ट्वा तत्सहचरितस्य पूर्वानुभूतस्य रसस्य स्मरणात्तत्रेच्छा भवति, ततोऽपि प्रयत्न आत्ममनस्संयोगापेक्षो रसनेन्द्रियविक्रियां करोति / सा दन्तोदकसंप्लवानुमिता रसनेन्द्रियविक्रिया इन्द्रियचैतन्ये न स्यात्, प्रत्येक नियताभ्यां चक्षरसनाभ्यां रूपरसयोः साह'चाप्रतीतौ रूपदर्शनेन रसस्मृत्यभावात् / अस्ति चायं विकारः, तस्मादिन्द्रियव्यतिरिक्तः 'कोऽप्यस्त्युभयदर्शी यो रूपं दृष्ट्वा रसस्य स्मरति / शरीरमेव चोभयशि भविष्यतीति चेन्न, बालवृद्धशरीरयोः परिमाणभेदेनान्यत्वे सिद्ध बालावस्थानुभूतस्य वृद्धावस्थायामस्मरणप्रसङ्गात् / न केवलं पूर्वोक्तैर्हेतुभिः, सुखदुःखेच्छाद्वेषादिभिश्च गुणैर्गुण्यनुमीयते "[सुखादीनि द्रव्याश्रितानि गुणत्वाद्रूपादिवत् / योऽसौ गुणी स आत्मेति / ननु शरीराश्रिता एव सुखादयः तत्राह ते च न शरीरेन्द्रियगुणा इति / न प्रतिज्ञामात्रेण कस्यचिदर्थस्य [टि०] व्यवच्छेदार्थ विशेषणे जातीयग्रहणम्, दीपादिप्रभाव्यवच्छेदार्थम् , तेषां स्वयमेकेन्द्रियग्राह्यत्वेऽपि तज्जातीय तेजोऽन्तरस्य द्वीन्द्रियग्राह्यत्वात / 'अहं सुखीति-अहंकारप्रत्ययस्य यो विषयस्तत सम्बन्धित्वेन "सूखाद्यवच्छेद: प्रतीयते / विषयस्येत्यत्र सम्बन्धे षष्ठी अवच्छेदस्येत्यत्र तु कर्मणि / तत्कृत एव इति :-तेनात्मना कृतः / "तदालम्बनत्वेन [कु.] ननु देहेन्द्रियातिरिक्तश्चेतनः नयविषयालोचनानन्तरं रसनविक्रियादर्शनादिति किं केन सम्बध्यते इत्यतः प्रश्नपूर्वकं तात्पर्यमाह-कि मुक्तमिति (कं. 84.6) / इदमत्रानुमानमभिप्रेतं चक्षुरादिकमचेतनं नियतविष[य]त्वात् गवाक्षवत्। अथवा चेतनश्चक्षुरादिव्यतिरिक्तः, अनियतविषयत्वात अनेकगवाक्षप्रेक्षकपुरुषवदिति न केवलं काय कारणमात्मानुमेय किन्तु गुणैर्गुणितयाऽपीति चार्थ इत्यभिप्रायः / गुणत्वादिति कार्यत्वे सत्येकेन्द्रियग्राह्यत्वेन गुणत्वममीषां गन्धादिवद्दष्टव्यम् / तथापि सामान्यान्तर्भावे कार्यत्वव्याघातः / कार्यद्रव्यत्वे कर्मस्वे च पृथिव्यातित्रयं च तत्कर्मवच्च द्वीन्द्रियग्राह्यत्वापातो वायुवत्तकर्मवच्चाग्राह्यत्वापातो वेत्यनुकूलस्तर्को द्रष्टव्यः / ननु सुखादीनामहंप्रत्ययस्य चापदात्मकत्वादेकवाक्यभावो न युज्यते इत्यत आह एकवाक्यत्वमेकाधिकरणत्वमिति (कं.८४.१५) / अभिधानधर्मस्याभिधेय उपचारादेतद्रष्टव्यम् / उपचारप्रवृत्तिनिमितानामेकार्थसमवाये प्रमाण (इ)वचनं यथाहः भिन्नप्रवृत्तिनिमित्तानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्पमिति स्थूलोऽहं कृशोऽहमिति शरीरधर्मसामानाधिकरण्यादहं-प्रत्ययोऽपि शरीरविषय इत्यत आह अहमिति (कं. 84.16) / १न्तरविकारो-कं. 1, कं. 2; 'नेन्द्रियविकारो-जे. 3 / 2 °वाक्षयोरन्तःप्रेक्षक-कं. 1. कं. 2 / 3 °चर्यप्रतीतो-कं. 1, कं. 2 / 4 कोऽप्युभयदर्शी - कं. 1, कं. 2 / 5 मेवोभय' - कं. 1, कं. 2 / 6 1 एतच्चिह्नान्तर्गतः पाठः-कं. 1, कं. 2 पुस्तकयोभ्रंष्टः। 7 विशेषेण -ड; विशेषणा - अ, ब; 8 त्वेजो-अ, ब, क; 9 प्रतीकमिदं अब पुस्तकयोभ्रंष्टम् / 10 मुखा-अ, ब, 11 सम्बन्धे इति अब पुस्तकयो स्ति / 12 अबच्छेद्यस्य मु.। 13 लम्बनत्वे च-मु. जे. 1, जे. 3; लत्वेन-ड; 14 कमुक्त MS.