________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 213 प्रशस्तपादभाष्यम् [91] अभिमतविषयग्राहककरणसम्बन्धनिमित्तेन मनःकर्मणा गृहकोणेषु पेलकप्रेरक इव दारकः, नयनविषयालोचनानन्तरं रसानस्मतिक्रमेण रसनविक्रियादर्शनादनेकगवाक्षान्तर्गतप्रेक्षकवदुभयदर्शी कश्चिदेको विज्ञायते / सुखदुःखेच्छाद्वेषप्रयत्नैश्च गुणैर्गुण्यनुमीयते / __ न्यायकन्दली [91] मनोगति लिङ्गकमनुमानमुपन्यस्यति-'अभिमतेत्यादि। अभिमतो विषयो जिघुक्षितोऽर्थः, तस्य यद्ग्राहकं करणं चक्षुरादि तेन 'यो मनसः सम्बन्धस्तस्य निमित्तेन मनःकर्मणा। 'गृहे कोणेषु कोष्ठेषु भूमौ रोपितं पेलकं प्रति हस्तस्थितस्य पेलकस्य प्रेरको दारक 'इव प्रयत्नवान् मनःप्रेरकोऽनुमीयते / प्रयत्नवता प्रेयं मनः, अभिमतविषयसम्बधनिमित्तक्रियाश्रयत्वाद्दारकहस्तगतपेलकवत् / वाय्वादिप्रेरितस्यानभिमतेनापि सम्बन्धो भवति / [एतदर्थमभिमतविषयेत्युक्तम् / इन्द्रियान्तरविकारं दर्शयति ] नयनविषयेति / नयनविषयस्य रूपस्यालोचनाद् ग्रहणादनन्तरं रसस्यानुस्मरणक्रमेण [टि०] [91] अभिमतेति :-न तु स्वरश्मीनामभिमतसम्बन्धनिमित्तायाः क्रियाया आश्रयत्वं चक्षुगोलकस्याप्यस्ति न तु प्रयत्नवत् प्रेयत्वम्, तस्य मनःप्रेर्यत्वात् / "सुखादीनि इति :-"सुखादयो विशेषगुणाः कार्यत्वे सत्यव्यापकत्वे वा एकेन्द्रियग्राह्यजातीयत्वात् रूपवदिति [विशेष] गुणत्वसिद्धौ गुणत्वाद् इति हेतुः, आत्मनः सुखत्वादिसामान्यस्य च [पं०] [91] वृद्धावस्थायां स्मरणायोगादिति, वृद्धावस्थायामस्मरणप्रसंगादिति द्वौ पाठौ स्तः / अर्थः सदृश एव / [कु०] [91] मनसोऽणुत्वं वक्ष्यते / तस्य च गति मनः (मनोगति ? ) इन्द्रियसम्बन्धकमाज्ञानक्रम ? इति च / एवं स्थिते प्रयोगोऽयमित्यांह प्रयत्नवतेति (कं. 84.1) / . ननु साक्षात्कारायोग्यं मनः कथं प्रयत्नेन प्रेयंते ? दण्डादीनां साक्षात्कृतानामेव प्रयत्नेन प्रेर्यत्वदर्शनात / [न] चादृष्टवशादसाक्षात्कृतमपि मनःप्रयत्नप्रेरितं भविष्यतीति साम्प्रतम्, अदृष्टादेवाभिमतविषयग्राहककरणसम्बन्धनिमित्तकर्मोत्पत्तिसम्भवे तदतिरिक्तप्रयत्नकल्पनायां कल्पनागौरवप्रसङ्गादिति / सत्यमेवमेतत् / [अ] दृष्टाङ्गीकारे च तदाश्रयात्मसिद्धिरवर्जनीया तदाप्यभिमतवचनादिच्छानुविधायि कर्म गृह्यते। इच्छा च प्रयत्नं मध्येकृत्यैव कर्मोत्पादयति / ततश्चासाक्षात्कृतेऽपि मनसाम् [इच्छानुविधायि कर्मादृष्टवशात्प्रयत्नपूर्वकमभ्युपगन्तव्यम् / अन्यथा बुभुत्सातिशयेन पटुतरप्रत्य [या] नुदयप्रसङ्गादिति / 1 कश्चिदेको विज्ञायते इति - ता. दे पुस्तकयो स्ति। 2 लिङ्गमनमानं-जे. 3 / 3 अभिमतेत्यादिना-कं. 1, कं. 2 / 4 योगो मनस्सम्बन्धः - कं. 1, कं. 2 / 5 तन्निमित्तेन-जे. 3 / 6 गृहकोणेषु भूमावारोपितं-जे. 3 / 7 इति - जे. 1, जे. 2 / 8 [ ] एतच्चिह्नान्तर्गतः पाठः - कं. 1, कं. 2 पुस्तकयो स्ति / 9 ग्रहणानन्तरं - कं. 1, कं. 2 / 10 प्रतीकमिदं अपुस्तके भ्रष्टम्, अभिमतविषयसम्बन्धेति - ड; 11, 12 मुखा - अ, ब; 13 पाठव्युत्क्रमादर्थो न स्पष्ट: स /