________________ 212 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् . न्यायकन्दली विकृतवाय्वाश्रयत्वाद् भस्त्रावत् / शरीरपरिगृहीतेत्यनेनेच्छापूर्वकत्वं दर्शितम्, तेन हि द्विवायुकादिभिन्ननिकान्तिकम् / निमेषोन्मेषकर्मणा नियतेन दारुयन्त्रप्रयोक्तेवेति अक्षिपक्ष्मणोः संयोगनिमित्तं कर्म निमेषः, 'विभागार्थं च कर्मोन्मेषः / तेन कर्मणा दारुयन्त्रप्रयोक्तेव विग्रहस्य प्रयत्नवानधिष्ठाता अनुमीयते / वायुवशेनापि दारुयन्त्रस्य निमेषोन्मेषौ स्याताम्, तन्निवृत्त्यर्थं नियतेनेति / अमेनेच्छाधीनत्वं दर्शयति / शरीरं प्रयत्नवदधिष्ठितमिच्छाधीननिमेषोन्मेषवदवयवयोगित्वाद् दारुयन्त्रवत् / ... / __ जीवनलिङ्गकमनुमानं कथयति-देहस्येति / वृद्धिः प्रसिद्धव / क्षतस्य भग्नस्य च संरोहणं पुनः सङ्घटनं तयोनिमित्तत्वाद् गृहपतिरिव प्रयत्नवानधिष्ठाता अनुमीयते / शरीरस्य वृद्धिक्षत'संरोहणं च प्रयत्नवता कृतं वृद्धिक्षतभग्नसंरोहणत्वाद् गृहवृद्धिक्षतभग्नसंरोहणवत् / वृक्षादिगतेन वृद्धयादिना व्यभिचार इति चेन्न, तस्यापीश्वरकृतत्वात्, न तु वृक्षादयः सात्मकाः, बुद्धयाद्युत्पादनसमर्थस्य विशिष्टात्मसम्बन्धस्याभावात् / [टि०] लोकव्यवहारसिद्धस्य प्रयत्नवदधिष्ठानमात्रस्यैवाभीष्टत्वात्। एवमितरेष्वपि / 'तेन द्विवायुकेतिः- विरुद्धदिक्क्र'यवाय्वभिधानादूर्ध्वगमनादिभिः / ननु प्राकाराभिधातो'च्छालिते वायौ प्राकारेऽपि ईश्वरेच्छाविकृतवाय्वा श्रयत्वमस्ति, न तु प्रयत्नवदधिष्ठितत्वम् ? नवम्; तत्रापीश्वरस्य प्रयत्नवतः सत्त्वात् / वृद्धिः इति -अवयवो पचयः / [पं०] दारुयन्त्रप्रयोक्तेवेति पाटवप्रयोक्ते वा / जीवनलिङ्गकमिति वृद्धिक्षयात्मिका वृत्तिर्जीवनम्, जीवनं लिङ्गमस्येति बहुव्रीही कच् / प(पे) लकमिति लाक्षागोलकम् / [कु०] इच्छाधीननिमेषोन्मेषवदिति (कं. 83.17) ननु परात्मवत्परेच्छाया अप्यप्रसिद्धत्वाद्विशेषणासिद्धो हेतुः? अथ हिताहितप्राप्तिपरिहारस्यायोग्यतयानिमेषोन्मेषकर्मण इच्छापूर्वकत्वमनुमीयत इति तहि प्रवृत्तिनिवृत्तिभ्यामेव गतार्थमेतत् / सत्यम् / प्रपञ्चार्थस्तूपन्यासः / वृद्धिः प्रसिद्धवेति (कं. 83 19) पूर्वावयवविनाशमपेक्षमाणस्तदारम्भकैरागन्तुकावयवसहायरधिकपरिमाणस्यावयविन आरम्भणं वृद्धिरित्यर्थः / तस्यापीश्वरकृतत्वादिति (कं. 83.22) अभ्युपगमवादोऽयम्, इतरथा प्रवृतोऽपि तेनैव सिद्धसाधनत्वप्रसङ्गात् / वृक्षादयोऽपि शरीरधारिण एवेति परि[र] मार्थ इतरथा त एव वर्षाद्यनुकूलविषयसम्बन्धे हर्षविषादानुपपत्तेः। मानसः पक्षिमृगतां वाचकैरन्त्यजातितां नरस्थाच [व] रतामेति (मति? ) कायिकरिहयानकरित्यादिस्मृतिबिरोधप्रसङ्गाच्च / 1 बिभागार्थ कर्मो-कं. 1, कं. 2 / 2 कथयति -कं. 1, कं. 2 / 4 तेन हि-म. जे. 1,3; 5 हिक्षित्वाय्व - अ, दिक्षिवाय्व-ब; अ, ब, क, 8 प्रयत्न ततः-अ, ब; 9 वापचयः-अ; 3 संरोहणं प्रयत्नवता-कं. 1, कं. 2 / 6 च्छलितो-अ, ब; 7 श्रयमस्ति