________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम 211 न्यायकन्दली हिताहितप्राप्तिपरिहारयोग्याभ्यामिति / हितं सुखमहितं दुःखम्, तयोः प्राप्तिपरिहारौ हितस्य प्राप्तिरहितस्य परिहारः, तत्र योग्याभ्यां समर्थाभ्यामिति बुद्धिपूर्वकचेष्टापरिग्रहः। रथकर्मणा सारथिवदिति दृष्टान्तकथनम् / साधनोपादानपरिवर्जनद्वारेण हिताहितप्राप्तिपरिहारसमर्था चेष्टा 'प्रयत्नपूर्विका विशिष्ट क्रियात्वात् रथक्रियावत् / शरीरं वा प्रयत्नवदधिष्ठितं विशिष्टक्रियाश्रयत्वात् रथवत् / प्राणादिभिश्चेति / प्राणादिभिश्च प्रयत्नवानधिष्ठाताऽनुमीयत इत्यनुषजनीयम् / प्राणादिभिरित्यनेन “प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः" "सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानि" (वै. सू. 3-2-8) इति सूत्रोक्तसमस्तलिङ्गपरिग्रहः / कथमिति प्रश्नपूर्वकं प्राणापानयोलिङ्गत्वं दर्शयति-शरीरपरिगृहीत इति / वायुस्तिर्यग्गमनस्वभावः, शरीरपरि गृहीते च वायौ प्राणापानाख्य विकृतं स्वभावविपरीतं कर्मोर्ध्वगमनमधोगमनञ्च दृश्यते, तस्मात् प्रयत्नवान् विग्रहस्याधिष्ठातानुमीयते, यस्तथा वायु प्रेरयति, अन्यथास्य विकृतत्वासम्भवात् / भस्त्राध्मा पयितेवेति दृष्टान्तः, शरीरं प्रयत्नवदधिष्ठितमिच्छापूर्वक [टि०] 'चेष्टा श्वानं प्रति हितप्राप्त्यर्था कश्चित्प्रति 'दौर्गन्ध्येनाहितप्राप्त्यर्था च भवति / परं यस्यैव प्रयत्नेन जनिता चेष्टा तस्यैत यदि हिताहितप्राप्तिनिमितं सेह गृह्यते इत्यभिप्रायवतो बुद्धिपूर्वकेति व्याख्यानम् / नन्वत्र दृष्टान्ते कि साक्षात्प्रयत्न वदधिष्ठितत्वं पारम्पर्येण वा ? नाद्योऽसिद्धे, नापरः पक्षे "एवासिद्धेः, नैवम् , विशेषाविवक्षया [पं०] पादानपरिवर्जने, तद्द्वारेण / तेन [हि] द्विवायुकादिभिर्नानकान्तिकमिति द्वयोर्वेगवतोविरुद्ध दिक्रिययोः सन्निपातो द्विवायू: / तत्र वायोरूर्ध्वगमनमस्ति / न चात्मेत्यनकातिकम / इच्छापूर्वकस्य वायोरूर्ध्वगमनस्य तत्राभावादित्यर्थः / कु० 82.23) अचेतनतणादिक्रियया व्यभिचारनिवृत्त्यर्थमित्यर्थः / लतादीनामपि शरीरस्य वक्ष्यमाणत्वात् / स्रोतः "प्रेरितेति (कं. 82.24) शरीरसमवायिन्यापि प्रयत्नानपेक्षया क्रियया व्यभिचारनिवृत्त्यर्थमित्यर्थः / मृतशरीरस्याभोगायतनशरीरत्वात्तत्र योग्याभ्यामिति द्वयोरपि पृथगेवहेतुत्वात् व्यर्थविशेषणत्वम्, "[योग्यग्रहणं च हिताहितप्राप्तिपरिहारयोरन्तरायसम्भवेऽपि प्रवृत्तिनिवृत्त्योः प्रयोजकत्वप्रतिपादनाय] प्रयत्नपूर्विका [इति] तद्विषयज्ञानकार्यप्रयत्नवत्संयोगपूविकेत्यर्थः / तत्रानुकूलस्तर्कः प्रयत्नवत्-संयोगाभावे तत्कार्याविशिष्टे चेष्टते [चेष्टेति] स्यादिति / प्रश्नपूर्वकमिति (कं. 83.7) उत्तरपर्यालोचनया प्रश्नस्यापि तद्विषयत्वमिति भावः / शरीरं प्रयत्नवदधिष्ठितं भोक्त्रधिष्ठितमिति व्याख्यानान्नेश्वरेण सिद्धसाधनाना (नानि)। 1 प्रयत्नवत्पूर्विका - जे. 2 / 2 क्रियात्वाद् - कं. 1, क्रियत्वाद्-कं. 2 / 3 गतीन्द्रियविकारा:- कं. 1, कं. 2 / 4 परिगृहीते-कं. 1, कं. 2 / 5 विकृतवाय्वसम्भवात-कं. 1, कं. 2 / 6 °ध्मापयितेव-कं. 1, कं. 2; ध्मापयितेति -जे. 2 / 7 चेष्टा-अ, ब; 8 दौर्गन्धना-अ, ब; 9 यद्धि-ब; 10 वदष्ठितत्वं-अ; 11 एव सिद्धेः-अ, ब, क; ' 12 स्रोतः पतित-कं. 1. कं. 2 / 13 [ ] एतच्चिह्नान्तर्गतः पाठः पुनरावृत्त आदर्शपुस्तके-सं /