________________ 210 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [90] शरीरसमवायिनीभ्याञ्च हिताहितप्राप्तिपरिहारयोग्याभ्यां प्रवृत्तिनिवृत्तिभ्यां रथकर्मणा 'सारथिवत् प्रयत्नवान् विग्रहस्याधिष्ठातानुमीयते, प्राणादिभिश्चेति / कथम् ? शरीरपरिगृहीते वायौ विकृतकर्मदर्शनाद् भस्त्राध्मापयितेव, निमेषोन्मेषकर्मणा नियतेन 'दारुयन्त्रप्रयोक्तेव, देहस्य वृद्धिक्षतभग्नसंरोहणादिनिमित्तत्वात् गृहपतिरिव। न्यायकन्दली वस्थं 'तत्तत्रजनयत्येव यथाविकलजननावस्थं बीजमङकुरं प्रति, ‘अविकलज्ञानजननावस्थं चान्त्यं ज्ञानमिति प्रमाणमस्तीति चेत् ? न, ज्वालादीनामन्त्यक्षणेन व्यभिचारात्, स्नेहत्तिक्षयादिनाऽन्त्यज्वालाक्षणस्य कारणावस्थावैकल्यादविकलत्वं नास्तीति चेत् ? अन्त्यज्ञानस्यापि मरणपीडया पीडितस्याविकलकारणावस्थत्वमसिद्धमिति सुव्याहृतं क्षणिकत्वे परलोकाभाव इत्युपरम्यते। [90] आत्मसिद्धौ प्रमाणान्तरमप्याह-शरीरसमवायिनीभ्यामिति / प्रवत्तिनिवत्तिभ्यां प्रयत्नवान् विग्रहस्य शरीरस्याधिष्ठातानुमीयते / 'लतादिनिवृत्तिप्रवृत्तिव्यवच्छेदार्थ शरीरसमवायिनीभ्यामित्युक्तम् / स्रोतःप्रेरितमृतशरीरप्रवृत्तिनिवृत्तिव्यवच्छेदार्थञ्च [टि०] [90] लतादीति :-लतादीनां शरीरत्वमस्य नाभीष्टम् / बुद्धिपूर्वकचेष्टेति :-नदीस्रोतः प्रेरितशवशरीस्यापि [पं०] चक्षुरादिभ्य इति भौतिकेभ्यः / अतो न प्राक्तनजन्मसिद्धिरिति क्षणभङ्गुरवादे इति शेषः / ज्वालादीनामिति दीपाचिरादीनाम् / परवाक्यं स्नेहवर्तीत्यादि / [90] साधनोपादानपरिवर्जनद्वारेणेति सुखदुःखयोः साधनानि स्रक्चन्दनवनितासर्पकंटकविषादीनि, तेषामु [कु.] कार्यत्वे प्रमाणाभावमभिधाय ज्ञानकारणत्वेऽप्याह भविष्यतीति (कं. 82.14) “मरणशरीरान्त्यज्ञानेनेति (कं. 82.14) नियमाणे शरीरे चरमं यज्ज्ञानं तेनेत्यर्थः / अन्त्यज्ञानस्यापि (कं. 82.19) इति कार्यस्य जन्मना स्नेहवत्तिक्षयस्य कारणावस्थावैकल्यहेतुत्वं ज्वालायां यथा कल्प्यते तद्वज्ज्ञानेऽपि मरणानन्तरस्याजननान्मरणपीडाया एव कारणावस्थावैकल्यहेतुत्वं कल्पयितुं सुशं (श) कमिति भावः / / [90] नन्वनुवृत्तिप्रमाणस्यात्मत्वस्य सिद्धये परात्मनिरूपणं प्रस्तुतं तथा च यथा परात्मात् (त्म) प्रसिद्धिः तथा परबुद्धेरपीति शङ्का निराकरणपरमनन्तरभाष्यमवतारयति-आत्मसिद्धादिति (कं. 82 22) / लतादीति (कं. 1 सारथिरिव -दे। 2 दारुयन्त्रेण-दे। 3 तज्जनयत्वेव-कं.१; कं.२; तत्तज्जनयत्येव -जे.१; जे. 2 / 4 अविकलं जननत्वस्थं-कं. 1; कं. 2 / 5 क्षयादीनाम्-कं. 1; कं. 2 / 6 लतादिप्रवृत्ति - कं. 1, कं, 2 / 7 स्रोत:पतित - कं. 1, कं. 2 / 8 मरणे-कं 1. कं.२।