________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 209 न्यायकन्दली गर्भादिज्ञानस्य प्राग्भवीयज्ञानकृतत्वे प्रमाणाभावात, नहि समानजातीयादेवार्थस्योत्पत्तिः, विजातीयादप्यग्नेधूमस्योत्पत्तिसम्भवात् / अथ मतं यस्यान्वयव्यतिरेकावतिशयञ्च यदनुविधत्ते तत्तस्य समानजातीयमुपादानञ्चेति स्थितिः, ज्ञानञ्च 'बोधात्मकत्वमतिशयं बित्ति तच्च पृथिव्यादिभूतेषु नास्ति, तस्माद्यस्यायमतिशयस्तदस्य समानजातीयमुपादानकारणमिति स्थिते गर्भज्ञानं ज्ञानान्तरपूर्वकं सिद्धयति, कारणव्यभिचारे कार्यस्याकस्मिकत्वप्रसङ्गादिति / / तदप्यसारम्, अदहनस्वभावेभ्यो दारुनिर्मथनादिभ्यो वढेहातिशयोत्पत्तिवदबोधात्मकेभ्योऽपि चक्षुरादिभ्यो बोधात्मकत्वातिशयोत्पत्तिसम्भवे बोधात्मककारणकल्पनानवकाशात, अतो न प्राक्तनजन्मसिद्धिर्भविष्यति / जन्मान्तरमित्यपि न सिद्धयति, मरणे शरीरान्त्यज्ञानेन ज्ञानान्तरं प्रतिसन्धातव्यमित्यत्र प्रमाणाभावात् / यद्यत्राविकलकारणा [टि०] पूर्वापरकालौ न गृह्णाति, अत एव वर्तमानकालग्रहणात् क्षणिकता प्रत्यक्षा इत्याह 'वर्तमानकालत्वेति-तत्कालम्याभावोऽतत्कालम् 'अमक्षिकवत्समासः / यदा हि ज्ञानेन वर्तमानकालसम्बन्धो गृह्यते तदा वर्तमानकालसम्बन्धाभाव एव व्यवच्छिद्यते, न तु प्राक्कालसम्बन्धोऽस्य 'नाभूदिति 'ज्ञायते / मृतिसमय एव ज्ञानसन्तानोच्छेदात् / ज्ञानसन्तानाविच्छेदस्य संसारत्वं निराचष्टे गर्भादिज्ञानेति / अदहनस्वभावेभ्यः इति :-बौद्धाभिप्रायेण दृष्टान्तोऽयम्, वैशेषिकमते तु तदन्तर्गतवह्निपरमाणभ्य एव दहनोत्पत्तिः / यद्यत्र इति :-अविकला सम्पूर्णा कारणावस्था कारणरूपता यस्य तद् अविकलकारणावस्थं समर्थमित्यर्थः / [पं०] कार्य [ता] दृक् जातीयं कारणं कल्प्यं चेदित्याह - न हि समानेत्यादि विजातीयादप्यग्नेधूमस्योत्पत्तिसंभवादिति वैशेषिकमते हि तैजसोऽग्निः, तज्जातस्तु धूमः पार्थिवः / यस्येति कारणस्य / यदिति = ज्ञानं कर्त, तदिति कारणम्, तस्येति कार्यस्य / अतिशयमिति विशेषम् / दारुनिर्मथनादिभ्य इति अधः काष्टं दारु, उपरिकाष्टं निर्मथनम् / [कु०] पार्थिवावयवैराप्यस्योत्पत्तिरिति / ततश्च ज्ञानं ज्ञानकार्यमिति सिद्धयतीत्यत आह न हीति (कं. 83.5) / उपादानजातिनियमो द्रव्ये द्रष्टव्यः / स च भवन्मतेऽनुपपन्नः जातेद्रव्यस्य चानङ्गीकारात् किन्तु यत्प्रतीत्य यदुत्पद्यते तत्तस्य कारणमित्येतावन्मात्रमभ्युपगम्यते / तत्र च नोपादानं किञ्चित] न च जातिनियमानुवत्तिरित्यर्थः / - यद्यपि यत्समवेतं कार्य तदुपादानमिति नास्मन्मतेन च जातिर्वस्तु सत्तातथाप्यन्यदेवोपादानत्वमपोहरूपा च जातिर्भविष्यतीत्याशयवानाशते अथ मतं यस्येति (कं. 82.7) / अत्रापि व्यभिचारः समान इति समाधते तदपीति (कं. 82.11) / परेण] स्थायिपरमाण्वनङ्गीकाराच्च निर्मथनादिभ्योऽपि दहनोत्पत्तिरित्यवसेयम् / एवं ज्ञानस्य 1 बोधात्मकम् - जे. 2; जे. 3 / कालत्वपरिच्छेदे - जे. 1, जे. 3; 7 तदंतर्गत -अ; 2 मरणं-जे. 1; जे. 2; जे. 3 / 3 वर्तमानकालपरिच्छेदे मु., वर्तमान 4 मक्षिकवत् - अ; 5 मा भूदिति - अ, ब, क; 6 जायते - क; 27