________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 207 न्यायकन्दली [89] योऽप्यतिप्रौढिम्ना प्रत्यक्षसिद्धं क्षणभङ्गमाह, तस्यानुभवाभाव एवोत्तरम् / नीलमेतदिति हि प्रतिपत्तिर्न तु क्षणिकमेतदिति नीलत्वाव्यतिरेकिणी क्षणिकता, तस्याः पृथगर्थक्रियाया अभावात् / अतो नीलत्वे गृह्यमाणे क्षणिकत्वमपि गृह्यते, सुसदशक्षणभेदाग्रहणात् / तथा नाध्यवसीयत इति चेत् ? अहोऽपरः प्रज्ञाप्रकर्षो यदयमनभवमपि व्याख्याय कथयति / यन्नाध्यवसितं तद्गृहीतमिति मगतष्णिकेयम्, प्रत्यक्षबलोत्पन्नावध्यवसायादन्यस्य प्रत्यक्षदृष्टत्वव्यवस्थानिबन्धनस्यानभ्युपगमात् / यस्मिन्नध्यवसीयमाने यनियमेन नाध्यवसीयते नीलपीतयोरिव तयोस्तादात्म्याभिधानमपि प्रलापः / क्षणिक प्रत्यक्षं ज्ञानं स्वसमानकालत्तिनीमर्थस्य सत्तां परिच्छिन्दत् तत्कालासम्बद्धता व्यवच्छिन्दत् तत्काला भावव्यभिचारिणं कालान्तरसम्बन्धमपि व्यवच्छिन्दत् तदेक [टि०] प्रत्यक्षबलेति :-बौद्धमते हि घटोऽयमित्यध्यवसाय एव घटविषयप्रत्यक्षसद्भावे व्यवस्थापको न पुनरन्यः / यस्मिन्नध्यवतीयेति :-घटत्वेन क्षणिकत्वस्य तादात्म्यं नास्ति तदध्यवसायेऽपि तस्यानध्यवसायात् 'यथा नीलस्य पीतेनेति / पुनः क्षणिकत्वस्य प्रत्यक्षतायां युक्तिमाशङ्कते क्षणिकं प्रत्यक्षं ज्ञानम् इति :-तत्क्षणिकं ज्ञानं यत्र काले स्वयमस्ति तत्कालवतिक्षणसत्त्वमपि परिच्छिन्नति, ततश्च तेन ग्रहणकालेम सम्बन्धाभावं व्यवच्छिन्नत्ति वर्तमानकाल [पं०] [89] 'अनुभवबाध एवेति-अनुभवाभाव एव / बौद्धवाक्यं नीलत्याव्यतिरेकिणीत्यादि / प्रत्यक्षबलोत्पन्नादिति -निर्विकल्पकबलोत्पन्नात् / अध्यवसायादिति विकल्पात् / यस्मिन्निति नीले यदि विक्षणिकत्वम् / तयोरिति नीलत्वक्षणिकरवयोः / तत्कालासम्बद्धतां व्यवच्छिन्ददिति - विकल्पात्, वर्तमानकालासंबन्धनिषेधवत् / तत्काला (ल) भावाव्यभिचार (रि) णमि (णः इति तत्काले वर्तमानकालाभावोऽतीतानागतयोः / स कालान्तरसम्बन्धमिति भविष्यदतीत [कु०] [89] ननु यदि क्षणिकत्वं धर्मिणो भिन्नं स्यात्त घग [त्तहि यद]नुभूयेत न चैवमिति शस्ते नीलत्वाव्यतिरेकिणीति (कं. 81.13) / ___ नन्वभेदे क्षणिकमित्यपि कदाचिदनुभूयेतेत्यत आह सु[स] दृश्षेति (कं. 81.15) / भप्रतिभासमानस्य विषयत्वकल्पनायामतिप्रसङ्ग इत्यभिप्रायथानुपहासेमोत्तरमाह अहो पर इति (कं. 81.16) / यन्नाध्यवसितं न सविकल्पकेन निश्चितं तद्गृहीतं निर्विकल्पकेन विषयी कृतमिति मृगतृष्णिकाप्रमाणबाधितमित्यर्थः / कुत इत्यत आह प्रत्यक्षबलोत्पन्नादिति (कं. 81.17) / निर्विकल्पकपृष्ठभागिनः सविकल्पकादन्यस्य निर्विकल्पकस्य दृष्टत्वव्यवस्थापकता न स्थादित्यर्थः / पूर्व क्षणिकत्वस्य नीलादिभ्यो व्यतिरेकमङ्गीकृत्यानुमानाभाव उक्तः, इदानीं सोऽपि नास्तीत्यत आह यस्मिन्निति (कं. 81.18) / गृह्यमाणागृह्यमाणयोस्तादात्म्यं प्रमाणबाधितमित्यर्थः / यद्यभ्युपगमेनाह "स्वात्मानमेवेति (कं. 81.23) / यदवच्छिन्नकालावस्थायितामर्थस्य गृहणीयादिति भावः / पूर्वापरेति (कं. 81.24) / उपलक्षणमेतत - अर्थस्य भावाभावयोरप्यग्रहणस्य तादवस्थ्यादेतत्कालत्वव्यवच्छेदो न तु १दिति हि प्रतिपत्तिर्न क्षणिक-कं. 1, कं. 2 / 2 कालभावव्यभिचारिणः-कं. 1, कं.२। 3 तथा- अ, ब, का 4 श्चेतन -ड; 5 अनुभवाभाष एव-कं। 6 अर्थदृष्टया (तहि यद] इति पाठः सङ्गम्छते-सं। 7 स्वात्मनामवेति Ms. I